SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४९१ काव्यमाला । अत्र च प्रतिपक्षगतं बलवत्त्वम्, आत्मगतं दुर्बलत्वं च गम्यते । संबन्धी च तदुपजीव्योपजीवकमित्रादिभेदादनेकविधः । यथा रे रे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमामनन्तम् । कि मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ॥' 'जितमौक्तिकसंपदां रदानां सहवासेन परां मुदं ददानाम् । विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते ॥" पूर्वत्रोपजीव्यस्य, इह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्वशाब्दत्वाभ्यां च वैलक्षण्यम् । एवमन्यदप्यूयम् । __ अत्र विचार्यते-हेतूप्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति । तत्र द्वितीयोदाहरणे तावद्धत्वंशः शाब्दः उत्प्रेक्षांशमात्रमार्थम् । प्रथमोदाहरणे तु द्वयमप्यार्थम् । पुत्रमारकसेवकत्वेन कारणेन वैरस्य तस्य खात्मकर्मकगर्तमध्यनिपातनेन कार्येण हेतुतायाश्च स्फुटं प्रतीतेः । अस्मिन्नलंकारे हेतुत्वं निश्चीयमानम् , हेतूत्प्रेक्षायां तु संभाव्यमानमित्यस्ति विशेष इति चेत्, प्रतीयमानहेतूप्रेक्षाया अनुत्प्रेक्षात्वापत्तेः । वाचकस्येवादेरभावाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात् । 'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥' इत्यलंकारसर्वखकृतोदाहृते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवद्वक्रसदृशमिन्दुं राहुर्बाधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना । 'मम रूपकीर्तिमहरद्भुवि यस्तदनुपविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ।। इति कुवलयानन्दकारेणोदाहृते तु पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभयमपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्मः । प्रतिपक्षगतबलवत्त्वखात्मगतदुर्बलत्वयोः प्रतीतेहेतूत्प्रेक्षान्त 'तत्प्रतिपक्षशङ्कितेऽस्मिमिति चेत्, न' इति पाठः । न विन इति । मत्सरादेवेति ।
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy