SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। 'समुत्पत्तिः पद्मारमणपदपद्मामलनखा· निवासः कंदर्पप्रतिभटजटाजूटभवने । अथायं व्यासङ्गः पतितजननिस्तारणविधे- . न कस्मादुत्कर्षस्तव जननि जागर्ति जगतः ॥' अत्र त्रिष्वेकेनाप्युत्कर्षजननसंभवे त्रयोऽप्युत्कर्षजननार्थ स्पर्धयेवापतन्तो रमणीयाः। 'पाटीरद्रुभुजंगपुंगवमुखोद्भूता वपुस्तापिनो ___ वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः । श्रोत्रे हन्त किरन्ति कूजितमिमे हालाहलं कोकिला बाला बालमृणालकोमलतनुः प्राणान्कथं रक्षतु ॥' अत्रापि त्रयोऽपि जीवनाशार्थमापतन्तोऽरमणीयाः। 'जीवितं मृत्युनालीढं संपदः श्वासविभ्रमाः । रामाः क्षणप्रभारामाः शल्यान्येतानि देहिनाम् ॥' अत्र जीवितादयः खाभाव्याद्रमणीया इति निःसारयितुमशक्याः, विशेषणमाहात्म्याच्चारमणीया इति दुःखजनकाश्च, अत एव शल्यतुल्याः । रमणीयारमणीयशब्दे कर्मधारय आश्रीयते, न द्वन्द्वः । सहचरभिन्नत्वदोषापत्तेः । एवमरमणीयरमणीयानामप्येककार्यजननार्थमापततां समुच्चयः संभवति । 'शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रदः । विपद्वैराग्यजननी त्रयं सुखकरं सताम् ॥' शरीरादयो हि खाभाव्यादरमणीया अपि भेदकमाहात्म्याद्रमणीयाः । न च रमणीयांनां समुच्चये अरमणीयानां च समालंकारेण, रमणीयारमणीयानां च विषमालंकारेण च संकीर्णत्वान्नैते प्रभेदा युक्ताः समुच्चयस्य । संकरस्य प्रभेदताप्रयोजकत्वविरहात् । अन्यथा सर्वेषामलंकाराणामनन्तभेदत्वापत्तेरिति वाच्यम् । “समुत्पत्तिः पद्मारमण-' इत्यत्र, 'पाटीरदु भटः शत्रुः शिवः । पाटीरद्रुश्चन्दनवृक्षः । हालाहलरूपं कूजितम् । मेदकं विशेषणम् । समुच्चये इत्यस्याग्रेऽप्यनुषङ्गः ॥ इति रसगङ्गाधरमर्मप्रकाशे समुच्चयप्रकरणम् ॥
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy