SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ १९० काव्यमाला। युगपदिति क्रमव्यावृत्त्यर्थम् , न त्वेकलक्षणप्रतिपत्त्यर्थम् । तेन किंचिकालभेदेऽपि न समुच्चयभङ्गः । स तावविविधः-धर्मि भेदधम्क्याभ्याम् । धयक्येऽपि द्वैविध्यम्-कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये कारणतया एकधर्म्यन्वये चेति । एवं त्रिविधेऽस्मिन्नाद्ययोर्भेदयोर्गुणानां क्रियाणां गुणक्रियाणां च, तृतीये रमणीयानामरमणीयानां रमणीयारमणीयानां समन्वयः । न चास्मिन्वक्ष्यमाणसमाध्यलंकारत्वमाशयम् । समाधौ हि एकेन कार्ये निष्पाद्यमानेऽप्यनेनाकस्मिकमापतता कारणेन सौकर्यादिरूपोऽतिशयो यत्र संपाद्यते स विषयः । अस्मिंस्तु समुच्चयप्रभेदे यत्रैककार्य संपादयितुं युगपदनेके खले कपोता इवाहमहमिकया संपतन्ति कार्यस्य च न कोऽप्यतिशयः सः । क्रमेणोदाहरणानि 'प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः । रक्तं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः ॥' 'उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन ।' अत्राये गुणानां द्वितीये क्रियाणां च योगपद्येन भिन्नधर्म्यन्वयः । 'आताम्रा सिन्धुकन्याधवचरणनखोल्लासिकान्तिच्छटाभि ज्योत्स्नाजालैर्जटानां त्रिपुरविजयिनो जातजाम्बूनदश्रीः । खाभाव्यादच्छमुक्ताफलरचितलसद्गुच्छसच्छायकाया पायादायासजालादमरसरिदघवातजातश्रमान्नः ॥' 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता - स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । कोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति ___द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥' अत्राचे गुणानां द्वितीये क्रियाणामेकधर्म्यन्वयः। यद्यपि हरिचरणनखसंसर्गसमये नास्ति हरजटासंसर्ग इति रक्तपीतवर्णयोर्योगपद्यस्यासंभवः, तथापि साहजिकश्चैत्येन सह तयोः प्रत्येकं तस्य संभवोऽस्त्येवेति न दोषः । प्राग्वदाह-अथेति । सिन्धुकन्याधवो लक्ष्मीपतिः। तयो रकपीतवर्णयोः । प्रति
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy