SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। ३२३ उदाहरणम्'अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः । सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम् । यथा वा- . 'सुधायाश्चन्द्रिकायाश्च संजीविन्या महौषधेः।। दयादृष्टेश्च ते राजन्विश्वसंजीवनं गुणः ॥' यथा वा'मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः सकान्ते ।। सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ॥ अत्राभावः साधारणो धर्मः। कस्यचित्प्रकृतत्वे दीपकम् । अन्यथा तुल्ययोगितैव । यत्र क्रिया साधारणो धर्मस्तत्र यावतां कादिकारकाणां संनिधानं तेषां स्वसजातीयेनान्येन सह तुल्ययोगिता, दीपकं वा पृथक्पृथग्भवति । औपम्यस्यापि पृथगेव भासमानत्वात् । यथा 'सुजनाः परोपकारं शूराः शस्त्रं धनं कृपणाः । कुलवत्यो मन्दाक्षं प्राणात्यय एव मुञ्चन्ति ॥' अत्र कर्तृकर्मणोः । एवं वक्ष्यमाणे 'लावण्येन प्रमदा-' इत्यत्र कर्तृकरणयोः । 'दिवि सूर्य-' इत्यत्र कत्रधिकरणयोः ।। अमुनैव न्यायेनानेकासां क्रियाणामेककारकान्वये कारकदीपकम् । यथा· वसु दातुं यशो धातुं विधातुमरिमर्दनम् ।। त्रातुं च मादृशान्राजन्नतीव निपुणो भवान् ॥' . कन् । अमृतस्येति । अत्र ललितत्वविशेषणोक्तेः कवितायाः प्रकृतलं बोध्यम् । इदं गुणस्योदाहरणम् । क्रियोदाहरणमाह-सुधाया इति । अत्र राजवर्णनेन दयादृष्टेरेव प्रकृतत्वम् । अभावोदाहरणमाह-मृतस्येति । विमार्गेति । परपुरुषगामिन्या इत्यर्थः । अत्राह-कस्यचिदिति । प्रकरणादिनेति भावः । कर्नादीति । आदिना
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy