________________
रसगङ्गाधरः ।
१२३
अत्र स्मृत्यैव घनसादृश्यं भगवतः प्रतीयमानं वाच्यवृत्त्या कदर्थितं निवेद्यते । देवकीतनय इति तु साधुः ।
अत्र सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षादुपादानानुपादानयोरुपमायामिवात्रापि व्यवस्था । तथा हि उपमायां तावत्कचिद्धमों नियमेन प्रतीयमानः साक्षान्नोपादेय एव । यथा 'शङ्खवत्पाण्डुरच्छविः' इत्यत्र पाण्डुरत्वम् । ‘शङ्खवत्पाण्डुरोऽयम्' इत्यादौ तु नानाविधेषु धर्मेष्वनेनैव धर्मेण सादृश्यमित्यस्य दुरवगमत्वात् । सर्वत्रोपमानोपमेयसाधारणस्य लिष्टशब्दात्मकस्यान्यस्य वा स्वानभिप्रेतस्य साधारणधर्मस्योपमाप्रयोजकत्व - संभवात्तद्वारणाय पाण्डुरत्वादिधर्मो वाच्यतां नीयते । यथा वा 'अरविन्दमिव सुन्दरं मुखम्' इत्यादौ सुन्दरत्वादिः । न नीयते च क्वचित् । वक्तुरन्यस्यानुपस्थानात्प्रसिद्धेः प्राबल्यात् । यथा 'अरविन्दमिव मुखम् ' इत्यादौ स एव । अप्रसिद्धश्च धर्मोऽवश्यं साक्षादुपादेयः । अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्तेः । यथा 'नीरदा इव ते भान्ति बलाकाराजिता भटाः' इत्यादौ लिष्टशब्दात्मकः । इत्थं च कश्चित्साधारणो धर्मः साक्षादनुपादेय एव । कश्चिदुपादेयानुपादेयश्च । कश्चिदुपादेय एवेति सहृदयसंमतः समयः । एवमेवोपमाजीवातुकेऽस्मिस्मरणालंकारेऽपि बोध्यम् । तत्रानुगामिनि धर्मे ' स्मृत्यारूढं भवति किमपि ' इत्यादौ पद्ये निवेदितमेव स्मरणम् । बिम्बप्रतिबिम्बभावापन्नेऽपि धर्मे 'भुजभ्रमितपट्टिश-' इत्यादिपद्ये निरूपितम् । कुलिशपट्टिशयोर्भूधरदन्ताचलयोश्च बिम्बप्रतिबिम्बभावात् ।
उपमेयविशेषणच्छविविशेषणतयोपस्थितपाण्डुरत्वस्यैव प्रत्यासत्त्या तत्र गम्यमानत्वादिति भावः । ननु धर्मान्तरस्योपमाप्रयोजकत्वाभावादेव नैव सादृश्यं स्वगतमत आह-सर्वत्रेति । अस्य द्वितीयमुदाहरणं विशेषं वक्तुमाह-यथा वेति । न नीयते चेति । वाच्यतामित्यस्यानुषङ्गः । अनुपस्थितौ हेतुमाह - प्रसिद्धेरिति । स एवेति । सुन्दरत्वादिरित्यर्थः । बलाकाराजिता इति । बलाका बकपतिस्तया राजिताः । बलाकाराभ्यामजिता इत्यर्थः । उपसंहरति — इत्थं चेति । यथोपमायामिति शेषः । जीवातुर्जीवनौषधम् । तत्र अनुपादेयादिधर्माणां मध्ये | स्मृत्यारूढमिति । अत्रानुगामी श्यामलधर्मोऽनुपात्तः । निरूपितं स्मरणमित्यस्यानुषङ्गः । एवमग्रेऽपि । अत्रो कहे तो स्तस्योपादानमित्याह - कुलिशेति । स पवनात्मज इत्यन्वयः । अत्रानयोः । आदिना कठिन लागा