SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ I किम् । स्वस्ति तुभ्यं सगवे २ । सवत्साय २ । सहलाय २ ॥ समानस्य धर्मादिषु ॥ ३ । २ । १४९ ॥ उचरपदेषु सः ॥ सधर्मा | सनामा । बहुवचनादाकृतिगणोऽयम् । अन्ये तु धर्मादिषु वचनान्तेषु नवसु विकल्पमिच्छन्ति । अपरे तु नामादिषु द्वादशस्वेव नित्यमिच्छन्ति । अन्ये तु नैवेच्छन्ति । सधर्मादिशब्दांस्तु सहशब्देन समानपर्यायेण साधयन्ति । समानशब्दप्रयोगे तु समानधर्मेत्याद्येवेति मन्यन्ते । सोदर्यसतीयैौ तु वक्ष्यमाणनिपातनात् ॥ सब्रह्मचारी ॥ ३ ॥ २ । १५० ।। निपात्यते । समानो ब्रह्मचारी समाने ब्रह्मणि व्रतं चरति वा सब्रह्मचारी । निपातनाद व्रतशब्दस्यापि लोपः ॥ दृग्दृशदृक्षे ॥ ॥। ३ । २ । १५१ ॥ उत्तरपदे समानस्य सः ॥ सदृक् । सदृशः । सहक्षः । दृशदृक्षसाहचर्यात् टक्सक्सहचरितकिवन्तस्यैव दृशो ग्रहणादिह न । समाना दृक् समानदृक् ॥ अन्यत्यदादेशः ॥ ३ । २ । १५२ ॥ दृग्दृशदृक्षेषूत्तरपदेषु । अन्यादृग् । अन्यादृशः । अन्यादृक्षः | त्यादृक् । त्यादृशः । स्यादृक्षः ॥ " यत्तदेतदो डावादिः " इति दावतौ यावान् तावान् एतावान् भविष्यति । इदंकिमी की ॥ ३ । २ । १५३ ।। दृगादावुत्तरपदे । ईदृक् । कीदृक् । " इदं किमोsरिय् किय् चास्य " इति इयान् क्रियान् इति भविष्यति ।। पृषोदरादयः ।। ३ । २ । १५५ ।। निपात्यन्ते । पृषोदरम् | बलाहकः । शकन्धुः । कर्कन्धुः । कुलटा इत्यादि । बहुवचनमाकृतिगणार्थम् । "वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । घातस्तिदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्|| २ ||” ॥ वावाप्यास्तनिश्रीधामहोपी ॥ ३ । २ । १५६ ॥ यथासङ्ख्यम् । वर्तसः । अवतंसः । वक्रयः । अवक्रयः । पिधानम् । अपिधानस् । पिनद्धम् । अपिनद्धम् । धातुनियमं नेच्छन्त्येके । पृषोदरादिममश्च एषः । तेन शिष्टमयोगोऽनुसरणीयः ॥ समासेअग्नेः स्तुतः ।। २ । ३ । १६ ।। सस्य षः । अभिष्टुत् ॥ ज्योतिरायुर्भ्यां च स्तोमस्य ॥ २ । ३ । १७ । अमे परस्य संस्य पः समासे । ज्योतिष्टोमः । आयुःष्टोमः । अनिष्टोमः ॥ निनद्याः स्वातेः कौशले ॥ २ । ३ । २० ॥ समासे सस्य पः । निष्णः । निष्णातः । नदीष्णः । नदीष्णातः । नद्याः स्नातस्य नेच्छन्त्येके । कौशले किम् । नि
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy