SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (३४) श्रीलघुहेमप्रभाव्याकरणम्. श्नुः ॥ तक्ष्णोति । तक्षति काष्ठम् । स्वार्थे किम् ? । सन्तक्षति वाग्भिः शिष्यम् । निर्भयतीत्यर्थः। इदमेव स्वार्थग्रहणं ज्ञापयति, अनेकार्था धातव इति । त्वक्षिता। त्वष्टा । णिक्ष चुम्बने । ३०१ ॥ प्रणिक्षति । वृक्ष स्तृक्ष णक्ष गतौ । ३०२ ॥ वक्ष रोषे । ३०३ ॥ सङ्घाते इत्येके । त्वक्ष त्वचने । ३०४ ॥ सूर्य अनादरे । ३०५ ॥ काक्षु वासु माशु काङ्क्षायाम् । ३०६ ॥ द्राक्षु धाक्षु ध्वाक्षु घोरवासिते च । ३०७ ॥ द्रासति ॥ .... ॥ इति भ्वादयः परस्मैपदिनः ॥ ॥ अथात्मनेपदिनः ॥ गाङ्गतौ।१॥ गाते। अन्तरङ्गत्वादवा सह धातोराकारस्य दीर्घ आतामाते इत्यादिनेत्वं न । गाते ॥ अनतोऽन्तोऽदात्मने ॥४।२। ११४ ।। गाते । गासे । गाथे । गाध्वे । गे। गावहे । गामहे ॥ गेत । गेयाताम् । गेरन् । गेथाः । गेयाथाम् । गध्वम् । गेय । गेवहि । गेमहि ॥ गाताम् । गाताम् । गाताम् । गास्व । गाथाम् । गाध्वम् । गै। गावहै । गामहै ॥ अगात । अगाताम् । अगात । अगाथाः । अगाथाम् । अगाध्वम् । अगे। अगा- - वहि । अगामहि ॥ अगास्त । अगासाताम् । अगासत । अगास्थाः । अगासाथाम् ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy