SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ उत्तरकृदन्तप्रकरणम्. (२६३) अनिच्छार्थादिषेः स्त्रियां भावाकर्त्रीरन: । यर्येषणा । परीष्टिः । अध्येषणा | अधीष्टिः ॥ कुत्सम्पदादिभ्यः क्विप् । ५ । ३ । ११४ ॥ स्त्रियां भावाकर्त्रीः ॥ क्रुत् । युत् | सम्पत् । विपत् ॥ भ्यादिभ्यो वा ॥ ५ । ३ । ११५ ॥ स्त्रियां भावाकर्त्रीः क्विप् । भीः । भीतिः । ह्रीः । हीतिः ॥ 1 व्यतिहारेऽनीहादिभ्यो ञः ॥ ५ । ३ । ११६ ॥ धातुभ्यः स्त्रियां बाहुलकाद्भावे || नित्यं विनोऽण् । नञोऽनिः शापे ॥ ५ । ३ । ११७ ॥ धातोर्गम्ये भावाकर्त्रीः स्त्रियाम् ॥ अजननिस्ते वृषल भूयात् । शाप इति किम् ? | अकृतिः पटस्य ॥ ग्लाहाज्यः ॥ ५ । ३ । ११८ ।। स्त्रियां भावाकरनिः । ग्लानिः । हानिः । ज्यानिः ॥ प्रश्नाख्याने वेञ् ॥ ५ | ३ | ११९ ॥ गम्ये स्त्रियां भावाकर्त्रीः । कां कारि, कारिकां, क्रियां, कृत्यां कृतिं वा अकार्षीः । सर्वां, कारि, कारिकां क्रियां, कृत्यां, कृर्ति, वा अकार्षम् ॥ , पर्यायार्णोत्पत्तौ च णकः ॥ ५ । ३ । १२० ॥ प्रश्नाख्याने गम्ये स्त्रियां भावाकर्त्रीः ॥ भवत आसिका । भवत: शायिका । अर्हसि त्वमिक्षुभक्षिकाम् । इक्षुभक्षिकां मे धारयसि । इशुभक्षिका उदपादि । कां कारिकामकार्षीः । सर्वो का - रिकामकार्षम् । 1
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy