SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ उत्तरकृदन्तप्रकरणम्. (२५५) ह्वोऽल् वा उश्च ।। हवः । भाव इति किम् ? | व्याप्ये ह्रायः । अनुपसर्गादिति किम् ? । आह्वायः । हनो वा वधू च ॥ ५ । ३ । ४६ ॥ अनुपसर्गाद् भावेऽल् || वधः । घातः ॥ व्यधजपमद्भथः ॥ ५ । ३ । ४७ ॥ अनुपसर्गेभ्यो भावाकर्त्रीरल् ॥ व्यधः । जपः । मदः ॥ नवा क्वणय महसस्वनः ॥ ५ । ३ । ४८ ॥ अनुपसर्गाद् भावाकरल् ॥ कणः । क्काणः । यमः । यामः । हसः । हासः । स्वनः । स्वानः ॥ आङो रुप्लोः ॥ ५ । ३ । ४९ ॥ भावाकरलू वा ॥ आरवः । आरावः । आप्लवः । आप्लावः ।। वर्षविघ्नेऽवाद् ग्रहः ॥ ५ । ३ । ५० ॥ भावाकर वा ॥ अवग्रहः । अवग्राहः । वर्षविघ्न इति किम् ? | अवग्रहोsर्थस्य || प्राद्रश्मितुलासूत्रे ॥ ५ । ३ । ५१ ॥ ग्रहेर्भावाकत्रोरल् वा ॥ प्रग्रहः । प्रग्राहः ॥ वृगो वस्त्रे ॥ ५ । ३ । ५२ ॥ प्राद्भावाकरलू वा ॥ प्रवरः । प्रावारः । वस्त्र इति किम् ? | प्रवरो यतिः ॥ उदः श्रेः ॥ ५ । ३ । ५३ ॥ भावाकरलू वा ।। उच्छ्रयः । उच्छ्रायः ॥ युपुद्रोर्घञ् ॥ ५ । ३ । ५४ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy