SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ( १४४ ) श्रीलघुमाकरणम्. क्तयोः परयोस्तद्योगे च तयोस्तः ॥ मूर्त्तिः काठिन्यम् । शीनम् । शीनवटृतम् । शीतं वर्त्तते । शीतो वायुः ॥ 1 प्रतेः ॥ ४ । १ । ९८ ॥ श्यः क्तयोः परयोः शीः, तद्योगे क्तयोस्ती नश्च ॥ प्रतिशीनः । प्रतिशीनवान् ॥ वाभ्यवाभ्याम् ॥ ४ । १ । ९९ ॥ यः क्तयोः परयोः शीः तद्योगे च तयोस्तोऽस्पर्शे नश्च ॥ अभिशीनः । अभिशीनवान् । अभियानः । अभिश्यानवान् । अवशीनः । अवशीनवान् । अवश्यानः । अवश्यानवान् । अभिशीनं घृतम् । अभिश्यानं घृतम् । अवशीनम्, अवश्यानं वा हिमम् । अभिशीतो वायुः । अवशीतो वायुः । अभिश्यानो वायुः । अवश्यानो वायुः ।। श्रः शतं हविः क्षीरे ॥ ४ । १ । १०० ॥ निपात्यते । श्रुतं हविः । नृतं क्षीरं स्वयमेव । हविः क्षीर इति किम् ? । श्राणा यवागूः ॥ श्रपेः प्रयोक्त्रैक्ये ॥ ४ । १ । १०१ । के हविःक्षीरयोः शूर्निपात्यते ॥ नृतं हविः क्षीरं वा चैत्रेण । हविः क्षीर इत्येव । श्रपिता यवागूः । प्रयोक्त्रैक्य इति किम् ? । पितं हविचैत्रेण मैत्रेण ॥ लङ्गिकम्प्योरुपतापाङ्गविकृत्योः ॥ ४ । २ । ४७ ॥ उपास्य नः क्ङिति लुक् । विलगितः । विकपितः । उपतापाङ्गविकृत्योरिति किम् ? । विलङ्गितः । विकम्पितः ॥ उति शवद्भ्यः कौ भावारम्भे । ४ । ३ । २६ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy