SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकरणम्. (१७१) VirvvvvvvvvvNAANNANAANANRNvorirawal देववातादापः ॥ ५।१ । ९९ ॥ कर्मण इः ॥ देवापिः । वातापिः ॥ सकृत्स्तम्बाहत्सवीही कृगः ॥ ५। १ । १०० ॥ कर्मणः कर्तरि इः ॥ सकृत्करिवत्सः । स्तम्बकरिव्रीहिः ॥ किंयत्तदबहोरः ॥ ५। १ । १०१ ॥ कर्मणः परात्कृगः ॥ किंकरा । यत्करा । तत्करा । बहुकरा ॥ सङ्ख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकर्माधन्तानन्तकारबाह्वरुधनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाहः ॥५। १ । १०२ ॥ कर्मणः परात्कृगः॥ सङ्ख्याकरः। द्विकरः। अहस्करः। दिवाकरः। विभाकरः । निशाकरः । प्रभाकरः । भास्करः। चित्रकरः । कर्तृकरः । आदिकरः । अन्तकरः । अनन्तकरः । कारकरः । बाहुकरः । अरुष्करः । धनुष्करः । नान्दीकरः। लिपिकरः। लिविकरः । बलिकरः । भक्तिकरः । क्षेत्रकरः । जङ्गाकरः । क्षपाकरः। क्षणदाकरः । रजनिकरः । दोषाकरः । दिनकरः । दिवसकरः ॥ हेतुतच्छीलानुकूले शब्दश्लोककलहगाथावैरचाटुसूत्रमत्रपदात् ॥ ५। १ । १०३ ॥ कर्तरि कर्मणः परात्कृगष्टः ॥ यशस्करी विद्या । श्राद्धकरः । प्रेषणकरः । शब्दादिवर्जनं किम् ? । शब्दकार इत्यादि । भृतौ कर्मणः ॥ ५। १ । १०४॥ कर्मणः परात्कृगो गम्यायां टः॥ कर्मकरी दासी ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy