SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ वृदन्तप्रकरणम्. कर्मणो दो डः ॥ पथिप्रज्ञः । प्रपामदः ॥ आशिषि हनः ॥ ५ । १ । ८० ॥ (१६.) कर्मणो डः ॥ शत्रुहः ॥ क्लेशादिभ्योऽपात् ॥ ५ । १ । ८१ ॥ कर्मभ्यो हन्तेर्डः ॥ क्लेशापहः । तमोपहः । बहुवचनादन्येभ्यो ऽपि ॥ कुमारशीर्षाणिन् ॥ ५ । १ । ८२ ॥ कर्मणो हन्तेः ॥ कुमारघाती । शीर्षवाती ॥ अचित्ते टक् ।। ५ । १ । ८३ ॥ 1 कर्मणः पराद्धन्तेः कर्त्तरि ॥ वातघ्नं तैलम् । अचित्त इति किम् ? | पापघातो यतिः ॥ जायापतेश्चिह्नवति ॥ ५ । १ । । ८४ ॥ कर्मणः पराद्धन्तेः कर्त्तरि टक् ।। जायाघ्नो ब्राह्मणः । पतिघ्नी कन्या ॥ ब्रह्मादिभ्यः ॥ ५ । १ । ८५ ।। कर्मभ्यः पराद्धन्तेष्टक् ।। ब्रह्मघ्नः । गोघ्नः ॥ हस्तिबाहुकपाटाच्छक्तौ ।। ५ । १ । ८६ ॥ कर्मणः पराद्धन्तेर्गम्यायां टक् ॥ हस्तिनः । बाहुघ्नः । कपाटनः । शक्ताविति किम् ? । हस्तिघातो विषदः ॥ नगरादगजे ॥ ५ । १ । ८७ ।। कर्मणः पराद्धन्तेः कर्त्तरि टक् ॥ नगरघ्नो व्याघ्रः । अगज इति किम् ? । नगरघातो हस्ती ॥ राजघः ॥ ५ । १ । ८८ ॥ राज्ञः कर्मणः पराद्धन्तेष्ट घादेशश्च निपात्यते ॥ राजघः ॥ पाणिघताडघौ शिल्पिनि ॥ ५ । १ । ८९ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy