SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकरणम. (१६१) प्रयाप्यमाणः २॥ निर्विण्णः ॥ २ । ३ । ८९ ॥ निर्विदः सत्तालाभविचारणार्थात्परस्य क्तस्य नो णत्वम्। निविण्णः॥ न ख्यापूगभूभाकमगमप्यायवेपो णेश्च ॥२॥३॥९॥ अदुरुपसर्गान्तःस्थाद्रादेः परात् परस्य कृतो नो ण् ॥ प्रख्यानीयम् । प्रख्यापनीयम् । प्रपवनीयम् । प्रपावनीयम् । प्रभवनीयम् । प्रभावनीयम् । प्रभायमानम् । प्रभापना । प्रकामिनौ । प्रकामना । अप्रगमनिः।प्रगमना। प्रप्यानः। प्रप्यायना । प्रवेपनीयम्। प्रवेपना ।। देशेऽन्तरोऽयनहनः ॥ २।३ । ९१ ॥ नो ण न । अन्तरयनः, अन्तर्हननो वा देशः॥ षात्पदे ॥ २।३। ९२ ॥ परस्य नो ण् न ॥ सर्पिष्पानम् । पद इति किम् ?। पुष्णाति । सपिकेण॥ पदेऽन्तरेऽनायतद्धिते ॥ २।३ । ९३॥ निमित्तकायिणोनों ण न ॥ प्रावनद्धम् । रोषभीममुखेन । माषकुम्भवापेन । अनाङीति किम् ? । प्राणद्धम् । अवद्धित इति किम् ? । आर्द्रगोमयेण ॥ __ य एच्चातः ॥ ५। १ । २८॥ स्वरान्ताद्धातोः ॥ चेयम् । नेयम् । देयम् । धेयम् ॥ शकितकिचतियतिशसिसहियजिभजिपवर्गात् ॥ ५।१। २९॥ यः॥ शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सद्यम् । यज्यम् । भज्यम् । तप्यम् । गम्यम् ॥ आङो यि ॥ ४।४ । १०४ ॥ लभः स्वरात्परः प्रत्यये नोऽन्तः॥ आलम्भ्या गौः। यीति किम् ?।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy