SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्री लघुहेमप्रभाव्याकरणम्. (१६०) चिनोतेः क्यपि, ह्रस्वस्य तः पिकृति ॥ ४ । ४ । ११३ ॥ धातोरन्तः ॥ चित्योऽग्निः ॥ याज्या दानार्च ॥ ५ । १ । २६ ॥ यजेः करणे दानर्चि ध्यण् ॥ याज्या ॥ तव्यानीयौ ॥ ५ । १ । २७ ॥ धातोः ॥ शयितव्यम् | शयनीयम् ॥ निंसनिक्षनिन्दः कृति वा ॥ २ । ३ । ८४ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः । प्रणिसितव्यम् । प्रनिंसितव्यम् । प्रणिक्षितव्यम् । प्रनिक्षितव्यम् । प्रणिन्दितव्यम् । प्रनिन्दितव्यम् ॥ स्वरात् ॥ २ । ३ । ८५ ॥ अदुरुपसर्गान्तःस्थाद्रादेः कृतो नो णः ॥ प्रयाणीयम् । नाम्यादेरेव ने || २ | ३ | ८६ ॥ अदुरुपसर्गान्तःस्थाद्रदेः परस्य धातोः परस्य स्वरादुत्तरस्य कृतो नो णू || प्रेङ्खणीयम् । नाम्यादेरिति किम् ? । प्रमङ्गनम् ॥ व्यञ्जनादेर्नाम्युपान्त्याहा ।। २ । ३ । ८७ ॥ अदुरुपसर्गान्तःस्थाद्वादेः परस्य कृतः स्वरात्परस्य नो ‍॥ प्रमेहणीयम् । प्रमेहनीयम् । व्यञ्जनादेरिति किम् ? । प्रोहणम् । नाम्युपान्त्यादिति किम् ? | प्रवपणम् । प्रवहणम् । स्वरादित्येव । प्रभुग्नः । अदुरित्येव । दुर्मोहनः ॥ णे ॥ २ । ३ । ८८ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य धातोर्विहितस्य कृत: स्वरास्परस्य नो ण् ॥ प्रमङ्गणीयम् । प्रमङ्गनीयम् । विहितेति किम् ? |
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy