SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ PAP (१३३) श्री घुमभाव्याकरणम्. यत्नो गुणान्तराधानम् । एधोदकस्योपस्कुरुते । प्रकथनं कथनप्रारम्भः प्रकर्षेण कथनं वा । जनापवादान् प्रकुरुते । उपयोगो धर्मादौ विनियोगः ? शतं प्रकुरुते ॥ अधेः प्रसहने || ३ | ३ | ७७ ॥ " कृगः कर्त्तर्यात्मनेपदम् || प्रसहनं पराभिभवः परेणापराजयो बा । तं हाधिचक्रे । प्रसहन इति किम् ? तमधिकरोति ॥ दीप्तिज्ञानयत्नविमत्युपसम्भाषोपमन्त्रणे वदः ॥ ३ । ३ । ७८ ॥ ये कर्त्तर्यात्मनेपदम् ॥ वदते विद्वान् स्याद्वादे । ज्ञाने । वदते धीमस्वार्थे । यत्ने । तपसि वदते । मामा मतिर्विमतिः । धर्मे विवदन्ते । उपसम्भाष उपसान्त्वनम् । कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम् । कुलभार्यामुपवदते ॥ व्यक्तवाचां सहोक्तौ ॥ ३ । ३ । ७९ ।। व्यक्तवाची रूढ्या मनुष्यादयस्तेषां सम्भूयोच्चारणार्थाद्वदः कर्यात्मनेपदम् || सम्प्रवदन्ते ग्राम्याः । व्यक्तवाचामिति किम् ? सम्प्रवदन्ति शुकाः । सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति ॥ विवादे वा ॥ ३ । ३ । ८० ॥ व्यक्तवाचां सहोक्तौ वदः कर्त्तर्यात्मनेपदम् || विप्रवदन्ते । विप्रवदन्ति वा मौहूर्त्ताः । विवाद इति किस ? सम्प्रवदन्ते वैयाकरणाः । सहोक्तावित्येव । मौहूर्त्ता मौहूर्त्तम क्रमाद्विप्रवदति ॥ अनोः कर्मण्यसति ॥ ३ । ३ । ८१ ॥ seenarain वदः कर्त्तर्यात्मनेपदम् ॥ अनुवदते चैत्रो मैत्रस्य । कर्मण्यतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येव ॥ अनुबदति वीणा ॥ W
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy