SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ( १३४ ) श्री लघुहेमप्रभाव्याकरणम्. उपात् कर्त्तर्य्यात्मनेपदम् || कन्यामुपयच्छते । विनिर्देशः किम् ? शाटकानुपयच्छति । वा स्वीकृतौ ॥ ४ । ३ । ४० ॥ यमेरात्मनेपदविषयः सिच् किद्वत् । उपायत । उपायंस्त महाखाणि । स्वीकृताविति किम् ? आयंस्त पाणिम् ॥ देवार्चामैत्रीसङ्गमपथिकर्तृकम करणे स्थः ॥ ३ | ३ |६०॥ उपात्कर्त्तर्यात्मनेपदम् ॥ जिनेन्द्रमुपतिष्ठते । रथिकानुपतिष्ठते । यमुना गङ्गामुपतिष्ठते । स्रुघ्नमुपतिष्ठते पन्थाः । ऐन्द्रया गार्हपत्यमुपतिष्ठते ॥ वा लिप्सायाम् ॥ ३ । ३ । ६१ ॥ उपात्स्थः कर्त्तर्यात्मनेपदम् || भिक्षुर्दाकुलमुपतिष्ठते । उपतिष्ठति वा ॥ उदोऽनूर्ध्वेहे || ३ | ३ | ६२ ॥ स्थः कर्त्तर्यात्मनेपदम् ॥ मुक्ताबुत्तिष्ठते । अनुध्वैति किम् ? आसनादुत्तिष्ठति । इहेति किम् ? ग्रामाच्छतमुचिष्ठति ॥ संविप्रावात् ॥ ३ । ३ । ६३ ॥ स्थः कर्त्तर्यात्मनेपदम् ॥ सन्तिष्ठते । वितिष्ठते । प्रतिष्ठते । अवतिष्ठते ॥ ज्ञीप्सास्थेये || ३ | ३ । ६४ ॥ स्थः कर्त्तर्यात्मनेपदम् ॥ ज्ञीप्सा आत्मप्रकाशनम् । स्थेयः सभ्यः । तिष्ठते कन्या छात्रेभ्यः । त्वयि तिष्ठते विवाद: ॥ प्रतिज्ञायाम् ॥ ३ । ३ । ६५ ॥ स्थः कर्त्तर्यात्मनेपदम् ॥ नित्यं शब्दमातिष्ठते ॥ समो गिरः ॥ ३ । २ । ६६ ॥ प्रतिज्ञार्थात् कर्त्तर्यात्मनेपदम् ॥ स्याद्वादं खङ्गिरते |
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy