SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. ( १३१ ) बहुवि जयति वनम् ॥ समः क्ष्णोः ॥ ३ । ३ । २९ ॥ कर्त्तर्य्यात्मनेपदम् ॥ संक्ष्णुते शस्त्रम् । समइति किम् ? क्ष्णौति । उपसर्गादित्येव । आयसं क्ष्णौति ॥ अपाच्चतुष्पात्पक्षिशुनिहृष्टान्नाश्रयार्थे ॥ ४४॥९५॥ किरतेः कर्त्तरि सडादिः ॥ अपस्किरः ॥ ३ । ३ । ३० ॥ कर्त्तर्यात्मनेपदम् ॥ अपस्किरते वृषभो हृष्टः । कुक्कुटो भक्ष्यार्थी । आश्रयार्थी वा वा । सस्सट्कनिर्देशः किम् ? अपकिरति । अपेति किम् । उपस्किरति ॥ उदश्चरः साप्यात् ॥ ३ । ३ । ३१ ॥ कर्त्तर्य्यात्मनेपदम् ॥ मार्गमुच्चरते । साप्यादिति किम् ? धूम उच्चरति ॥ समस्तृतीयया ॥ ३ । ३ । ३२ ॥ चरेर्योगे कर्त्तर्य्यात्मनेपदम् ॥ अश्वेन सञ्चरते । तृतीययेति किम् ? उभौ लोकौ सञ्चरसि ॥ क्रीडोsकूजने ॥ ३ । ३ । ३३ ॥ सम्पूर्वात्कर्त्तर्य्यात्मनेपदम् ॥ सङ्क्रीडते । सम इत्येव । क्रीडति । अकूजन इति किम् ? सङ्क्रीडन्त्यनांसि || अन्वाङ्परेः || ३ | ३ | ३४ ॥ 1 क्रीडेः कर्त्तर्यात्मनेपदम् || अनुक्रीडते । आक्रीडते । परिक्रीडते ॥ शप उपलम्भने || ३ | ३ | ३५ ॥ कर्त्तयत्मनेपदम् ॥ उपलम्भनं प्रकाशनं शपथो वा । मैत्राय शपते । उपलम्भन इति किम् ? मैत्रं शपति ॥ गो गतताच्छील्ये ॥ ३ । ३ । ३८ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy