SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ (११६) श्रीलघुहेमप्रभाव्याकरणम्. व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ्वा ॥३॥४९॥ धातोः ॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन सम्पत्तिः फलातिरेको वा भृशत्वं, प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम्॥ आगुणावन्यादेः॥ ४।१ । ४८॥ यङन्तस्य द्वित्त्वे पूर्वस्य ॥ भृशं पुनः पुनर्वा पचतीति पापच्यते । बोभूयते । लोलूयते । अन्यादेरिति किम् ? वनीवच्यते । जञ्जप्यते । यंयम्यते । पूर्वसूत्रे व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ॥ योऽशिति ॥ ४ । ३। ८० ॥ धातोर्व्यञ्जनान्तात् परस्य प्रत्यये लुक् ॥ अपापचिष्ट । पापचाश्चक्रे । तोष्टूयते ॥ अटयर्तिसूत्रिमूत्रिसूच्यशर्णोः ॥ ३।४ । १० ॥ भृशाभीक्ष्ण्ये यङ् ॥ अटाटयते । अरार्यते । सोसूत्र्यते । मोमूव्यते । सोसूच्यते । अशाश्यते । पोर्णोनूयते ॥ . गत्यर्थात् कुटिले ॥३। ४ । ११॥ . व्यञ्जनादेरेकस्वराद् एवार्थे धातोर्यङ् ॥ मुरतोऽनुनासिकस्य ॥ ४।१। ५१ ॥ आत्परो योऽनुनासिकस्तदन्तस्य यडन्तस्य द्वित्त्वे पूर्वस्य मुरन्तः स्यात् ॥ चङ्गम्यते । जञ्जम्यते । बम्भण्यते । कुटिल इति किम् ? भृशं कामति । अत्र तपरत्वाद्दीर्घस्य न मोऽन्तः । तेन बाभाम्यते । ये न वा । जाजायते । जञ्जन्यते ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy