SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ नमो वीतरागाय ॥ गीतार्थत्वादिगुणोपेतसंस्मारितातीतयुगप्रधान जगद्गुरुश्रीवृद्धिविजयचरणकमलेभ्यो नमः ॥ आचार्यश्रीमद्विजयनेमिमूरिविरचितम् ॥ ॥ श्रीलघुहेमप्रभाव्याकरणम् ॥ सच्चेतोऽम्भोजभानुं प्रविदितसकलं पार्श्वमाप्तं सुरेज्यं विद्वद्वृन्दैकमत्यस्तुतगुणनिवहं हेमचन्द्रं मुनीन्द्रम् ॥ स्तुत्वा श्रीवृद्धिचन्द्रं गुरुममितगुणां भारतीमाहतींच सोऽहं हेमप्रभां तां लघुमतिसुगमां नेमिसूरिः प्रकुर्वे ॥ १ ॥ अर्हम् ॥। १ । १ । १॥ इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं मङ्गलार्थ प्रणिदध्महे ॥ सिद्धिः स्याद्वादात् ॥ १ ॥ १ ॥ २ ॥ नित्यानित्याद्यनेकधर्माणामेकवस्तुनि स्वीकारः स्याद्वादः । ततः शब्दानां निष्पत्तिईप्तिश्च ज्ञेया ॥ लोकात् ॥ १ । १ । ३॥ अनुक्तानां संज्ञानां न्यायानां च सिद्धिः । वर्णसमाम्नायस्य च ॥ तत्र ॥ औदन्ताः स्वराः ॥ १ । १ । ४॥ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ १ । १ । ५॥ औदन्ताः ॥ मात्रा कालविशेषः । ते चोदासानुदात्तस्वरितभेदात् त्रिधा, सानुनासिक निरनुनासिकभेदेन पुनर्द्विधा । उच्चैरुदात्तः, नीचैरहुदात्तः, समाहारः स्वरितः । मुखनासिकेनोच्चार्यमाणः सानुनासिकः,
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy