________________
(५०)
श्रीलघुहेमप्रभाव्याकरणम्,
आमो नाम् । पञ्चनाम् । पञ्चसु । एवं सप्तादयः। प्रियपश्चादयो राजवत् । प्रियपञ्चमः ॥
. वाष्टन आः स्यादौ ॥ १।४। ५२ ॥ तदतत्सम्बन्धिनि ॥
अष्ट और्जशशसोः ॥ १।४। ५३ ॥ स्वसम्बन्धिनोः ॥ अष्ट इति कृतात्वस्याष्टनो निर्देशः ॥ अष्टौ २। अष्ट २ । अष्टाभिः । अष्टभिः । अष्टभ्यः। अष्टाभ्यः २ । अष्टानाम् । अष्टसु । अष्टासु । परमाष्टौ । परमाष्ट । प्रियाष्टाः । प्रियाष्टा । प्रियाष्टौ । प्रियाष्टानौ । इत्यादि ।
अपः ॥ १।४। ८८॥ स्वरस्य शेषे घुटि दीर्घः ॥ स्वाप । स्वापौ । हे स्वप् ।।
अपोऽद् भे ॥२।१ । ४ । ___ स्यादौ ॥ स्वद्भ्याम् । तुण्डिभमाचष्टे तुण्डिप् २ । तुण्डिभौ । एवं गर्धप् । गर्दभौ । गर्धन्भ्याम् ॥
अयमियं पुंस्त्रियोः सौ ॥ २।१।३८ ॥ त्यदामिदमः ॥ अयम् । परमायम् । साकोऽप्येवम् । त्यदामिति किम् ? । अतीदम् ना स्त्री वा ॥
दो मः स्यादौ ।। २ । १। ३९ ॥ त्यदामिदमः ॥ इमौ २ । इमे । इमम् । इमकम् । त्यदामित्येव । प्रियेदमौ ॥
इदमः ॥२।१। ३४ ॥ त्यदादेरिदमो द्वितीयाटौसि अन्वादेशे एनत् स्यादवृत्यन्ते ॥ एनम् । एनौ । एनान् । एनेन । एनयोः २ ॥
अव्यञ्जने ॥ २॥ १॥ ३५॥