SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ र ॥ मत्वर्थे इमेव । मुनिधर्मी । यतिशीली । ब्राह्मणच वाहूर्वादेर्बलात् ॥ ७ । २ | ६६ ॥ मत्वर्थे इनेव । बाहुबली । ऊरुबली ॥ मन्माब्जादेर्नानि ॥ ७ । २ । ६७ ॥ (FOF) मत्वर्थे इन्भेव । दामिनी । सीमिनी । अब्जिनी । कमलिनी ॥ हस्तदन्तकराज्जातौ ॥ ७ । २ । ६८ ॥ मत्वर्थे इमेव ॥ हस्ती । दन्ती । करी ॥ वर्णाद् ब्रह्मचारिणि ॥ ७ । २ । ३९ ॥ मत्वर्थे इनेव ॥ वर्णी । ब्रह्मचारीत्यर्थः । वर्णवानत्यः ॥ पुष्करादेर्देशे ॥ ७ । २ । ७० ॥ मत्वर्थे इनेव । पुष्करिणी । पद्मिनी । देश इति किम् ? । पुष्करवान् हस्ती ॥ सूक्तसाम्नोरीयः ॥ ७ । २ । ७१ ॥ मत्वर्थे । अच्छावाकीयं सूक्तम । यज्ञायज्ञीयं साम ॥ लुब् वाऽध्यायानुवाके ॥ ७ । २ । ७२ ॥ मत्वर्थे ई॑यस्य । लुब्विधेरेवेयोऽनुमीयते । गईभाण्डः । गईभाण्डीयोsध्यायोऽनुवाको वा ॥ विमुक्तादेरण् ॥ ७ । २ । ७३ ॥ मत्वर्थेऽध्यायानुवाकयोः । वैमुक्तः । देवासुरः । अध्यायोs - नुवाको वा ॥ घोषदादेरकः ॥ ७ । २ । ७४ ॥ मत्वर्थेऽध्यायानुवाकयोः ॥ घोषदकः । गोषदकः । अध्यायोs नुवाको वा ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy