SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीलधुमप्रभाम्य उष्णादमन्तात्को नाम्नि । शीतं मन्दं करोति शीतकोऽलसः । उष्णको दक्षः ॥ () अधेरारूढे ॥ ७ । १ । १८७ ॥ बर्त्तमानात् स्वार्थे कः । आख्द शब्दे कर्त्तरि कर्मणि च क्तः । अधिको द्रोणः खार्याः । अधिका खारी द्रोणेन ॥ अनोः कमितरि ॥ ७ । १ । १८८ ॥ कः ॥ अनुकामयतेऽनुकः ॥ अभेरीश्च वा ॥ ७ । १ । १८९ ॥ कः समुदायेन चेत् कमिता गभ्यते || अभिकः । अभीकः || सोऽस्य मुख्यः ॥ ७ । १ । १९० ॥ कः । देवदत्तकः सङ्घः ॥ शङ्ङ्खलकः करभे ॥ ७ । १ । १९१ ॥ कप्रत्ययान्तो निपात्यते । शङ्खलकः करभः ॥ उदुत्सोरुन्मनसि ॥ ७ । १ । १९२ ॥ उत्कः । उत्सुकः ॥ कालहेतुफलाद्रोगे ॥ ७ । १ । १९३ ॥ स्यन्तादस्येति कः । द्वितीयको ज्वरः । पर्वतको रोगः । शीतको ज्वरः। प्रायोऽन्नमस्मिन्नानि ॥ ७ । १ । १९४ ॥ स्यन्तात् कः । गुडापूपिका पौर्णमासी ॥ कुलमाषादण ॥ ७ । १ । १९५ ॥ स्यन्तात्मायोऽन्नमस्मिन्नित्यर्थे नाम्नि | कौल्माषी पौर्णमासी ॥ वटकादिन् ॥ ७ । १ । १९६ ॥ स्यन्तात्मायोऽन्नमस्मिन्नित्यर्थे नाम्नि ॥ वटकिनी पौर्णमासी ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy