SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ तडितप्रकरणम्. ( २३९ ) टान्तादिकण । मासिको व्याधिः पटः चान्द्रायणं प्रासादो वा ॥ निर्वृत्ते । ६ । ४ । १०५ ॥ कालार्थाट्टान्तादिकण | आह्निकम् ॥ तं भाविभूते । ६ । ४ । १०६ ।। कालार्थादिकण । मासिक उत्सवः ॥ तस्मै भृताधीष्टे च ॥ ६ । ४ । १०७ ॥ कालार्थादिकण । मासिकः कर्मकर उपाध्यायो वा ॥ षण्मासादवयसि ण्येकौ ॥। ६ । ४ । १०८ ॥ कालात्तेन निवृत्ते तं भाविनि भूते तस्मै भृताधीष्टे चेति विषये । षाण्मास्यः । षण्मासिकः । अवयसीति किम् ? | षण्मास्यः ॥ समाया ईनः || ६ | ६ । १०९ ॥ तेन निवृत्त इत्यादिपञ्चकविषये ईनः । समीनः ॥ रात्र्यहः संवत्सराच्च द्विगोर्वा ।। ६ । ४ । ११० ॥ समान्तात्तेननिर्वृत्ते इत्यादिपञ्चकविषये ईनः । द्विरात्रीणः । द्वयहीनः । द्विसंवत्सरीणः । द्विसमीनः । पक्षे इकण । द्वैरात्रिकः । द्वैयह्निकः ॥ मानसंवत्सरस्याशाणकुलिजस्यानानि ॥ ७४॥१९॥ संख्यार्थाधिकाभ्यां परस्य णति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः। द्विकौडविकः । अधिककौडविकः । द्विषाष्टिकः । द्विसाम्वत्सरिकः । अशाणकुलिजस्येति किम् ? | द्वैशाणम् । द्वैकुलिजिकं । अनानीति किम् ? । पाञ्चलोहितिकम् ? | द्वैसमिकः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy