SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ R AMATA - Wwwwwwwwwwwwwwww ततः प्रभवति । तन्मयम् । भवन्मयी ॥ __ तस्येदम् ॥६।३। १६० ॥ षष्ठयन्तादिदमित्यर्थे यथाविहितं प्रत्ययाः। औपगवम् । दैत्यम् । कालेयम् । नादेयम् । पारीणः । भानवीयः॥ गोत्रोत्तरपदादगोत्रादिवाजिह्वाकात्यहरितकात्यात् ॥ ६ । १ । १२ ॥ गोत्रप्रत्ययान्तोत्तरपदात् गोत्रप्रत्ययान्तादिव तद्धितः। यथा चारायणीयास्तथा कम्बलचारायणीयाः। अजिहेत्यादि किम् ? । यथेह कातीयाः न तथा जैह्वाकाताः । हारितकाताः ॥ उक्ष्णोलुक् ॥७। ४ । ५६ ॥ अनपत्येऽण्यन्त्यस्वरादेः। औक्ष पदम् । अनपत्य इत्येव । उक्ष्णोऽपत्यमौक्ष्णः ॥ ब्रह्मणः ॥ ७ । ४ । ५७ ।। अनपत्येऽण्यन्त्यस्वरादेर्लुक् । ब्राह्ममस्त्रम् ।। . जातौ ॥ ७।४ । ५८ ॥ ब्रह्मणोऽनपत्येऽण्यन्त्यस्वरादेला । ब्राह्मी औषधिः । जातावनपत्ये एवेति नियमार्थ वचनम् । तेन ब्रह्मणोऽपत्यं ब्राह्मणः। जाताविति किम् ? । ब्राह्मो नारदः ॥ न्यकोवा ॥ ७। ४ । ८॥ णिति तद्धिते यात्यागैत् । नैयकवम् । न्याङ्कवम् ॥ ___ नमः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः ॥ ७ । ४। २३ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy