SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ तत्रभवे तदन्तस्य रूढौ। कणिका कर्णाभरणम् । ललाटिका ललाटमण्डनम् ॥ तस्य व्याख्याने च ग्रन्थात् ॥ ६।३। १४२ ॥ तत्रभवे यथाविहितं प्रत्ययः। कार्तम् । प्रातिपदिकीयं ब्याख्यानं भवं वा॥ प्रायोबहुस्वरादिकण ॥ ६ । ३ । १४३ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च । पात्वणत्विकम् । प्रायोवचनात् साहितम् ॥ ऋगृद्विस्वरयागेभ्यः ॥६।३ । १४४ ॥ ग्रन्थवाचिभ्यस्तस्यव्याख्याने तत्रभवे चेकण् । आर्चिकम् । चातु)तकम् । आङ्गिकम् । राजसूयिकम् ॥ ऋषरध्याये ॥ ६ । ३ । १४५ ॥ ग्रन्थवृत्तेस्तस्य व्याख्याने तत्रभवे चेकण । वासिष्ठिकोऽध्यायः। अध्याय इति किम् ? । वाशिष्ठी ऋक् ॥ पुरोडाशपौरोडाशादिकेकटौ ॥ ६।३ । १४६ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च । पुरोडाशिका । पुरोडाशिकी । पौरोडाशिका । पौरोडाशिकी ॥ छन्दसोयः॥ ६।३। १४७ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च। छन्दस्यः॥ शिक्षादेश्वाण ॥६।३। १४८॥ छन्दसोग्रन्थार्थात्तस्यव्याख्याने तत्रभवे च । शैक्षः। आर्गयनः । छान्दसः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy