SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीममभाव्याकरणम्. निशाप्रदोषात् ॥ ६ ॥ ३ । ८३ ॥ शेषे इकण वा । नैशिकः । नैशः । प्रादोषिकः । प्रादोषः ॥ श्वसस्तादिः || ६ । ३ । ८४ ॥ कालार्थाच्छेषे इकण वा । शौवस्तिकः । श्वस्त्यः । श्वस्तनः ॥ चिरपरुत्परारेस्त्नः || ६ । ३ । ८५ ॥ शेषे वा । चिरत्नम् परुनम् । परारित्नम् । पक्षे सायमित्यादिना तनट् । चिरंतनमित्यादि ॥ पुरोनः || ६ | ३ | ८६ ॥ ( २१० ) कालार्थाच्छेषे वा । पुराणम् । पुरातनम् ॥ पूर्वाह्वापराह्नात्तनट् || ६ । ३ । ८७ ॥ शेषे वा । पूर्वाह्वेतन: २ । अपराह्णेतन: २ । पौर्वाह्निकः । आपराह्निकः ॥ सायंचिरंप्राह्णेप्रगेऽव्ययात् । ६ । ३ । ८८ ॥ कालाच्छेषे नित्यं तनटू । सायन्तनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम् । दिवातनम् । दोषातनम् । कालेभ्य इत्येव सौवम् ॥ भर्तुसंध्यादेरण् || ६ | ३ । ८९ ॥ कालार्थाच्छेषे । पौषः । ग्रैष्मः । सान्ध्यः । आमावास्यः । एI कदेशविकृतत्वादमावस्याशब्दादपि । आमावस्यः । शाश्वतम् । ऋवर्णोवर्णादिति सूत्रेऽशश्वदिति प्रतिषेधादिकणपि । शाश्वतिकम् ॥ संवत्सरात्फलपर्वणोः ॥ ६ । ३ । ९० ॥ शेषेऽण् । सांवत्सरं फलं, पर्व वा ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy