SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तद्धितप्रकरणम्. सूक्तम् । आत्वादाविति किम् ? | ब्राह्मप्रजापत्यम् ॥ आतो नेन्द्रवरुणस्य ॥ ७ । ४ । २९ ॥ पूर्वपदात्परस्योत्तरपदस्य स्वरेष्वादेर्बुद्धिः ॥ आग्नेन्द्रं सूक्तम् । ऐन्द्रावरुणम् । आत इति किम् ? । आग्निवारुणम् ॥ ( १९५ ) पैङ्गाक्षीपुत्रादेयः ॥ ६ । २ । १०२ ॥ सास्य देवतेति विषये ॥ पङ्गाक्षोपुत्रीयम् । तार्णविन्दवीर्थं हविः ॥ शुक्रादियः || ६ । २ । १०३ ॥ सास्य देवतेति विषये ॥ शुक्रियं हविः ॥ शतरुद्रात्तौ । ६ । २ । १०४ ॥ सास्य देवतेति विषये ॥ शतरुद्रीयम् । शतरुद्रियम् ॥ अपोनपादपान्नपातस्तृ चातः ॥। ६ । २ । १०५ ॥ सास्य देवतेति विषये इय ईयश्च ॥ अपोनप्त्रीयम् । अपोनष्त्रियम् । अपान्नप्त्रीयम् । अपान्नत्रियम् ॥ महेन्द्राद्वा । ६ । २ । १०६ ॥ सास्य देवतेति विषये तौ ॥ महेन्द्रीयम् । महेन्द्रियम् । माहेन्द्रं हविः ॥ कसोमाद्व्यण || ६ । २ । १०७॥ सास्य देवतेति विषये ।। कार्य हविः । सौम्यं हविः ॥ द्यावापृथिवीशुनासीराग्नीषोममरुत्वद्वास्तोष्पति गृहमेधादीययौ । ६ । २ । १०८ ॥ सास्य देवतेति विषये ॥ द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । शुनासीर्यम् । अग्नीषोमीयम् । अग्नीषोम्यम् । मरुत्वतीयम् । मरुत्वत्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । गृहमेधीयम् । गृहमेध्यम् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy