SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ( १४२ ) श्रोलघुमभाव्याकरण. समासान्तोऽत् । प्रत्युरसम् । सप्तम्या इति किम् ? | प्रत्युरः ॥ अक्ष्णोऽप्राण्यङ्गे ॥ ७ । ३ । ८५ ॥ समासान्तोऽत् । लवणाक्षम् । अप्राण्यङ्गे इति किम् ? । अजाक्षी ॥ सङ्कटाभ्याम् ॥ ७ । ३ । ८६ ॥ अक्ष्णः समासान्तोऽत् । समक्षम | कटाक्षः ॥ ॥ इति समासान्ताः ॥ न नाम्येकस्वरात् खित्युत्तरपदेऽमः ॥ ३ । २ । ९ ॥ लुप् । स्त्रियंमन्यः । नावंमन्यः । नामीति किम् ? | क्ष्मंमन्यः । एकस्वरादिति किम् ? | वर्धुमन्यः । खितीति किम् ? | स्त्रीमानी ॥ असत्त्वे ङसेः ॥ ३ । २ । १० ।। उचरपदे न लुप् । स्तोकान्मुक्तः । असत्वे इति किम १ । स्तोकभयम् । उत्तरपद इत्येव । निःस्तोकः ॥ ब्राह्मणाच्छंसी ॥ ३ । २ । ११ ॥ अत्र ङसेलुबभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लुबेव । ब्राह्मणशंसिनी स्त्री ॥ ओजोऽञ्जः सहोम्भस्तमस्तपसष्टः ॥ ३ । २ । १२ ॥ उत्तरपदे परे न लुप् । ओजसाकृतम् । अञ्जसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् । ट इति किम् ? । ओजोभावः ॥ पुञ्जनुषोऽनुजान्धे ॥ ३ । २ । १३ ॥ टो न लुर् । पुंसानुजः । जनुषान्धः । ट इत्येव । पुमनुजा ॥ आत्मनः पूरणे || ३ । २ । १४ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy