________________
श्रीलघुहेममभाव्याकरणम्.
समासस्तत्पुरुषः । नीलोत्पलम् । खञ्जकुण्टः । कुण्टस्खअः । एकार्थमिति किम् ? | वृद्धस्योक्षा वृद्वोक्षा || पूर्वकालैकसर्वजरत्पुराणनव केवलम् ॥ ३ । १ । ९७ ॥
परेण नान्ना समासस्तत्पुरुषः कर्मधारयश्च ॥ स्नातानुलिप्तः । एकशाटी । सर्वान्नम्। जरद्बलिनः । पुराणवैयाकरणः । नवोक्तिः । केवलज्ञानम् । एकार्थमित्येव । स्नात्वानुलिप्तः ||
दिगधिकं संज्ञातद्धितोत्तरपदे ॥ ३ । १ । ९८ ॥
( १२६ )
नाम्ना समासस्तत्पुरुषः कर्मधारयश्च । दक्षिणकोशलाः । पूर्वेषुकामशमी । दाक्षिणशालः । अधिकषाष्टिकः । उत्तरगवधनः । अधिकगवप्रियः ॥
सङ्ख्या समाहारे च द्विगुश्चानाम्न्ययम् ||३|१|९९ ॥
परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च संज्ञातद्वितयोर्विषये उत्तरपदे च परे । पश्चाम्राः । सप्तर्षयः । द्वैमातुरः । अर्धकंसः । पञ्चगवधनः । पञ्चनावप्रियः । पञ्चराजी । समाहारे चेति किम् ? | अष्टौ प्रवचनमातरः | अनानीति किम् ? | पाश्वर्षम् ॥
निन्द्यं कुत्सनैरपापाद्यैः ॥ ३ । १ । १०० ॥ समासस्तत्पुरुषः कर्मधारयश्च । वैयाकरणखशुचिः । मीमांसकदुर्दुरूटः । निन्द्यमिति किम् ? । वैयाकरणचौरः । अपापाचैरिति किम् ? | पापवैयाकरणः । हतविधिः ॥
उपमानं सामान्यैः ॥ ३ । १ । १०१ ॥
एकार्थं समासस्तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीश्यामा । मृगचपला | उपमानमिति किम् ? । देवदत्ता श्यामा ||
उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ ३ । १ । १०२ ॥