SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ समासमकरणम.. (१११) गुरुः । गुरुमध्यः ॥ प्रियः ॥ ३।१ । १५७ ॥..... बहुव्रीही प्राग्वा ॥ प्रियगडुः । गडुप्रियः॥ ॥इति बहुव्रीहिः॥ तत्रादाय मिथस्तेन प्रहत्येति युद्धेऽव्ययीभावः ॥३।१ । २६ ॥ नाम नाम्ना अन्यपदार्थे समासः स्यात् ॥ इज् युद्धे ॥ ७।३।७४ ॥ यः समासस्तस्मात् समासान्तः॥ इच्यस्वरे दीर्घ आच ॥३।२ । ७२॥ उत्तरपदे पूर्वपदस्य ॥ केशाकेशि । दण्डादण्डि । मुष्टीमुष्टि । मुष्टामुष्टि । तत्रेति तेनेति किम् ? । केशांश्च २ गृहीत्वा कृतं युद्धम् । मुखं च २ प्रहृत्य कृतं युद्धम् । आदायेति प्रहृत्येति किम् ? । केशेषु च२ स्थित्वा, दण्डैश्च २ आगत्य कृतं युद्ध गृहकोकिलाभ्याम् । सरूपेणेति किम् ?। हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? । हस्ते च २ गृहीत्वा कृतं सख्यम् ॥ द्विदण्डयादिः ॥ ७ । ३ । ७५ ॥ इजन्तः साधुः । बिदण्डि हन्ति । उभादन्ति ॥ नदीभिर्नाम्नि ॥३।१। २७ ॥ अन्यपदार्थ नाम समस्यते सोऽव्ययीभावः ॥ बहुवचनात् विशेषाणां स्वरूपस्य च ग्रहणम् ॥ अमव्ययीभावस्यातोऽपञ्चम्याः ॥ ३ ॥ २ ॥२॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy