SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ( ९८.) श्रीलघुहेमप्रभाव्याकरणम्, wwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwww दि। एवं निमित्तादियोगेऽपि ॥ सर्वादेः सर्वाः ॥ २ । २ । ११९ ॥ हेत्वथैर्युक्तात् ॥ को हेतुः । के हेतुमित्यादि । तत्समानाधिकरणादित्येव। कस्य हेतुः॥ असत्त्वारादर्थाट्टाङसिङ्यम् ॥ २ । २ । १२० ॥ गौणादिति निवृत्तम् ॥ दूरेण दूरात् दूरे दूरं वा, अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामाद्वा वसति । एवं विप्रकृष्टेन अभ्यासेनेत्यादि । असत्त्व इति किम् ? । दूरः पन्थाः ॥ जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत् ॥२।२।१२१॥ सम्पना यवाः । सम्पनो यवः । जातीति किम् ? । चैत्रः । आख्यायामिति किम् ?। काश्यपप्रतिकृतिः काश्यपः। असंख्य इति किम् ? । एको व्रीहिः संपन्नः सुभिक्षं करोति ।। अविशेषणे द्वौ चास्मदः ॥२।२ । १२२ ॥ एकोऽर्थों वा बहुवत् ॥ आवां ब्रूवः । वयं ब्रूमः । अहं ब्रवीमि । वयं ब्रूमः। अविशेषणे किम् ?। आवां गाग्यौँ ब्रूवः । अहं चैत्रो ब्रवीमि ॥ फल्गुनीप्रोष्ठपदस्य भे॥२ । २ । १३२ ॥ वर्तमानस्य द्वौ बहुवदा॥कदा पूर्व फल्गुन्यौ। कदा पूर्वाः फल्गुन्यः। कदा पूर्वे पोष्ठपदे । कदा पूर्वाः प्रोष्ठपदाः। भ इति किम् ? । फल्गुनीषु जाते फल्गुन्यौ कन्ये ॥ .... गुरावेकश्च ।। २।२। १२४ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy