________________
३८
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર पूयणमजुत्तं लोयाहरणंपि तहा पयडे भयवं तवयणमि १।
आगमस्तु केवलिनापि नाप्रमाणीक्रियते यतः - अहो सुयनाणी जइवि गिण्हेइ असुद्धं । तं केवलि वि भुंजइ अपमाणसुयं भवे इहरा ॥
किं च आगमे सत्यप्याचरितस्य प्रमाणीकरणे तस्य लघुता स्फुटैवेति नैदेवमस्य सूत्रस्य शास्त्रान्तराणां च विषयविभागापरिज्ञानात् । तथाहि इह सूत्रे संविग्नगीतार्था आगमनिरपेक्षं नाचरंति । किं तर्हि ? दोसा जेण निरुज्झन्ति जेण खिज्जन्ति पुव्वकम्माइं । सो सो मुक्खोवाओ रोगावत्थासु समणं व ॥
इत्याद्यागमवचनमनुस्मरंतो द्रव्यक्षेत्रकालभावपुरुषाद्यौचित्यमालोच्य, संयमवृद्धिकार्ये च किंचिदाचरंति तच्चान्येऽपि संविग्नगीतार्थाः प्रमाणयंतीति स मार्गोऽभिधीयते । भवदुच्चारितशास्त्रांतराणि पुनरसंविग्नगीतार्थालोकमसमंजसप्रवृत्तिमाश्रित्य प्रवृत्तानि ततः कथं तैः सह विरोधसंभवस्तथागमस्यापि नाप्रमाणता-पत्तिरपि तु सुष्ठुतरं प्रतिष्ठा यस्मादागमोप्यागमश्रुताज्ञाधारणाजीतभेदात् पंचधा व्यवहारः प्ररूप्यते ॥ ___यत उक्तं स्थानांगे - पंचविहे ववहारे पन्नत्ते, तंजहा - आगमववहारे १ सुयववहारे २ आणाववहारे ३ धारणाववहारे ४ जीयववहारे ५ । जीताचरितयोश्चनांतरत्वादाचरितस्य प्रमाणत्वे सुतरामागमस्य प्रतिष्ठासिद्धिः तस्मादागमाविरुद्धमाचरितं प्रमाणमिति स्थितं ॥८०॥
अत एवेदमाह - अन्नहभणियंपि सुउ किंची कालाइकारणाविक्खं । अइन्नमनहच्चिय दीसई संविग्गगीएहिं ॥८१॥ व्याख्या। अन्यथा प्रकारांतरेण भणितमप्युक्तमपि श्रुते पारगत