________________
૧૨૦
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર पडिक्कमिउं अविहिपारिट्ठावणीयाए काउसग्गो कीरइ ताहे मंगलपच्छद्धं तउं अन्नेवि दोत्थए हायंति कड्डिन्ति उवस्सएवि एवं चेव चेइयवंदणवज्जं इति कल्पचतुर्थोद्देशकसामान्यचूर्णौ ।
यदुक्तं - स्तुतिनाम् हीयमानत्वं तत्कथं चतुर्विंशतिस्तवादि स्तुतीनां शाश्वतत्वात् घटत इति ? उच्यते घटत एव प्रतिक्रमणसमाप्तिस्तुतित्रयदृष्टांतात् । तथाहि - ताओ य थुइओ एगसिलोगाति वड्डन्ति या उ पयअक्खराइहिं वा सरेण वा वड्डन्तेण तिणि भणिऊण तउ पाउसियं करेंति आव. चू. ततो यदा तत्र प्रतिक्रमणस्तुतिनाम् स्वरेण प्रवर्द्धमानत्वमुक्तं तथात्रापि स्वरेण हीयमानत्वं क्रियमाणं को निवारयति ? किंचैतदेव हीयमानत्वं कल्पविशेषचूर्णिकल्पबृहद्भाष्यावश्यकवृत्तिकृद्भिरन्यथा व्याख्यातं यदुत चैत्यवन्दनानंतरमजितशांतिस्तवो भणनीयो नो चेत्तदा तस्य स्थानेऽन्यदपि हीयमानं स्तुतित्रयं भणनीयमिति । तथाहि चेइयघर गाहा । चेइयघर गच्छन्ति चेइयाई वंदित्ता संतिनिमित्तं अजियसंतित्थउ परियट्टिज्जइ तिनि वा थुतीओ परिहायंती उक्कड्डिज्जन्ति तओ आगन्तु आयरियसगासे अविहिपरिट्ठावणियाए काउसग्गो कीरइ कल्पविशेष चू. उ ४ तथा
चेइयघरूवस्सए वा आगम्मुस्सगगुरुसमीवंमि । अविहिं विगिंचणियाए संतिनिमित्तं च थतो तत्थ ॥१॥ परिहायमाणीयाउ तिनि थुई उ हवंति नियमेणं । अजियसंतित्थगमाइयाउ कमसो तहिं नेउ ॥ कल्पबृहद्भाष्ये तथा सव्वाओढाणाई दोसा हवंति तत्थेव काउसग्गंमि आगमुस्सयं गुरुसगासे अविहीए उसग्गो कोई भणेज्जा तत्थेव किमिति आउस्सग्गो न कीरइ ? भन्नइ उढाणाइ दोसा हवंति तओ य आगम चेइयघरं गच्छन्ति चेइयाणि वंदित्ता संतिनिमित्तं अजियसंतित्थयं पढंति तिणि वा थुईओ परिहायमाणीओ कड्डिज्जन्ति ति । तत्थ आगंतुं आयरियसगासे अविहिविगिंचणियाए काउसग्गो कीरइ ॥आव. वृ.॥