________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠારા પહેરવાનું કહ્યું છે. પીળા કપડાં પહેરનારને ઉત્તરાધ્યયનની બૃહદ્રવૃત્તિમાં (વાદિવેતાલ શાંતિસૂરિરચિત) વિડંબક એટલે કે વેશ વગોવવાવાળા શબ્દથી ભાંડચેષ્ટા કરવાવાળા કહ્યા છે. તે પાઠ :
अत्र च द्वितीयं द्वारं लिगंत्ति लिंग्यते गम्यते अनेनायं व्रतीति लिंगं वर्षाकल्पादिरूपो वेषस्तदधिकृत्यायं "अचेल" इत्यादि प्राग्वद्व्याख्यातमेव, नवरं “महामुणु'"त्ति महामुनेः पठंति च "महायस''त्ति महायशसा । लिंगे द्विविधे अचेलकतया विविधवस्त्रधारकतया च द्विभेद इति सूत्रत्रयार्थः ॥ __ "इच्छिय''त्ति इष्टमनुमतं पार्श्वतीर्थकृद्वर्धमानतीर्थकृझ्यामिति प्रक्रमो वर्द्धमान विनेयानां हि रक्तादिवस्त्रानुज्ञाते वक्रजडत्वेन वस्त्ररंजनादिषु, प्रवृत्तिरतिदुर्निर्वारा स्यादिति न तेन तदनुज्ञातं पार्श्वशिष्यास्तु न तथेति स्यादिति न तेन तदनुज्ञातमिति भावः । किंच प्रत्ययार्थं चामी वर्तिन इति प्रतीतिनिमित्तं कस्य लोकस्यान्यथा हि यथाभिरुचितं वेषमादाय पूजादिनिमित्तं विडंबकादयोऽपि वयं व्रतिन इत्यभिधीरन् ततो व्रतिष्वपि न लोकस्य वतिन इति प्रतीतिः स्यात् किं तदेवमित्याह नानाविधविकल्पनं प्रक्रमान्नानाप्रकारोपकरणपरिकल्पनं नानाविधं हि वर्षाकल्पाद्युपकरणं यथादुद्यतिष्वेव संभवतीति कथं न तत्प्रत्ययहेतुः स्यात्तथा यात्रासंयमनिर्वाहस्तदर्थं विना हि वर्षाकल्पादिकं वृष्ट्यादौ संयमबाधैव स्यात् । ग्रहणं ज्ञानं तदर्थं च कथंचिच्चित्तविप्लवोत्पत्तावपि गृह्णातु यथाहं व्रतीत्येतदर्थं लोके लिंगस्य वेषधारणस्य प्रयोजनमिति प्रवर्त्तनं लिंगप्रयोजनं ॥ __ अथेत्युपन्यासे "भवे पइन्नाउ''त्ति तुशब्दस्यैवकारार्थत्वाद्भिन्नक्रमत्वाच्च भवेदेव प्रतिज्ञानं प्रतिज्ञाभ्युपगमः प्रक्रमात्पार्श्ववर्द्धमानयोः प्रतिज्ञास्वरूपमाह "मोक्खस्स झूयसाहण"त्ति मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वात्साधनानि च हेतुत्वात् मोक्षसद्भूतसाधनानि कानीत्याह