SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર पारावारोदरविवरभाविभूरिदुःखभारांगीकारादिति आह किमेवमागमार्थमनवबुध्यापि कोऽप्यन्यथावादमाद्रियते ॥ १०१ ॥ ૬૪ यत आह दीसंति य दड्ढसिणेगे, नियमइए उत्तजुत्तीहिं । विहिपडिसेहपवत्ता चेइयकिच्चसु रुढेसु ॥ १०२ ॥ इति दृश्यन्ते दुःखमारूपे वक्रजडबहुले काले दडसिणो महासाहसिका रौद्रादपि भवपिशाचादबिभ्यतोऽनेके निजमतिप्रयुक्ताभिरात्मीयबुद्धिव्यापारिताभिर्युक्तिभिरुपपत्तिभिर्विधिप्रतिषेधप्रवृत्ता कासांचित्क्रियाणामागमानुक्तानामपि विधौ करणे प्रवृत्ता अन्यासा - मागमानिषिद्धतया चिरंतनजनाचरितानामप्यविधिरयुक्तापरा न कर्तव्या धार्मिकैरित्येवं प्रतिषेधे प्रवृत्ताः केषु चैत्यकृत्येषु स्नात्रबिंबकारणादिषु रूढेषु पूर्वपुरुषपरम्पराया प्रसिद्धेषु पूर्वरूढिरविधिः इदानीं प्रवृत्तिविधिरित्येवं वादिनोऽनेके दृश्यन्ते महासाहसिका इति ॥१०२॥ ननु तेषां स्वमत्या धर्मार्थिनां सर्वयत्नेन तथाप्रवृत्तिर्गीतार्थै: श्लाघनीया नवेत्याह तं पुण विसुद्धसद्धा, सुयसंवायं विणा न संसंति । अवहीरिऊण नवरं, सुयाणुरूवं परूवंति ॥ १०३ ॥ तां पुनस्तेषां प्रवृत्तिर्विशुद्धागमबहुमानसारा श्रद्धा येषान्ते विशुद्धश्रद्धाः श्रुतसंवादं विना श्रुतभणितमंतरेण न शंसंति नानुमन्यते । नवरं, केवलमवधार्य मध्यस्थभावेनोपेक्ष्य श्रुतानुरूपं प्ररूपयन्ति यथा सूत्रे भणितं तथैव विवदिषूणामुपदिशंतीति ॥१०३॥ પ્રશ્ન :- સૂત્રમાં કહ્યા મુજબ તો ગીતાર્થ આચરણા કરે તે બરાબર છે, પણ જે વાત સૂત્રમાં ન કરી હોય તે બાબત લોકો પૂછે તો ગીતાર્થ શું ४वाज खाये ?
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy