SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ૨૪૭ ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ इदानीं तावदेष दृष्टयुष्मत्कोपविपाकतया भयातिरेकग्रस्तहृदयो न किञ्चिच्चेतयते, गतेषु पुनरितो युष्मदादिषु प्रत्युपलब्धसंज्ञः सनेष भूयोऽप्यधिष्ठास्यते अनेन स्पर्शनेन, ततो युष्मद्भयादेव कुत्रचिनिर्देशे यामीत्याकूतेन प्रपलायमानो महता क्लेशेन यास्यत्येष कोल्लाकसन्निवेशे, तत्र च कर्मपूरकाभिधानस्य ग्रामस्य प्रत्यासन्नभूभागे पथि श्रान्तः पिपासितो दूरत एव द्रक्ष्यति बृहत्तडागं, ततः स्नानपानार्थं चलिष्यति तदभिमुखं, इतश्च पूर्वमेवागमिष्यति तत्र चण्डालमिथुनं, ततश्चण्डालस्तटाकतटवर्तिषु तरुगहनेषु पतत्रिगणमारणप्रवणः सन्नटाटिष्यते, चाण्डाली पुनर्विजनमितिकृत्वा स्नानार्थमवतरिष्यति तडागं, ततोऽवतीर्णायां तस्यां प्राप्स्यत्येष तस्य तीरं, ततोऽमुमुपलभ्य सा मातङ्गी स्पृश्यपुरुषोऽयं कलहयिष्यति मां सरोवरावतरणापराधमुद्दिश्येति भयेन निमक्ष्यति सलिले, स्थास्यति पद्मखण्डे लीना, अयमपि मज्जनार्थमवतीर्यानाभोगेनैव यास्यति तत्समीपं, भविष्यति तया सार्द्धमाश्लेषो, वेदयिष्यते तदङ्गस्पर्श, संजनिष्यते तस्योपरि लाम्पट्यमस्य, कथयिष्यति साऽऽत्मनश्चण्डालभावं, तथापि करिष्यत्येष तस्याः शरीरग्रहणं बलामोटिकया, विधास्यते सा हाहारवं, तमाकर्ण्य धाविष्यति कुपितश्चण्डालो, विलोकयिष्यत्येनं तथावस्थितं, प्रज्वलिष्यति नितरां कोपानलेन, संधास्यति कोदण्डे शिलीमुखं, मारयिष्यति च, अरे रे दुरात्मन्! अधमपुरुष! पुरुषो भवेत्याहूय स चण्डालः कम्पमानमेनमेकप्रहारेण प्रहरिष्यति, स च तदाऽध्यासितो रौद्रध्यानेनेति मृत्वा च यास्यति नरकेषु, तेभ्योऽप्युद्वृत्तस्ततः कुयोनिषु पुनर्नरकेष्वेवानन्तवाराः । एवं दुःखपरम्परायां स्थास्यत्यनन्तमपि कालं पतितः संसारचक्रे नरपतिरुवाच-भदन्त! अतिदारुणा इयमकुशलमाला स्पर्शनश्च, यद्वशेन इदमस्य संपन्नं संपत्स्यते च । भगवताऽभिहितं-महाराज! किमत्रोच्यताम् ? पर्याप्तमीदृश्या दारुणया तया । सुबुद्धिनाऽभिहितंभदन्त! किमेते स्पर्शनाऽकुशलमाले अस्यैव पुरुषस्य प्रभवतः आहोस्विदन्येषां प्राणिनामपि? भगवानाह महामात्य! केवलमत्र पुरुषेऽभिव्यक्तरूपे खल्वेते, परमार्थतः सर्वेषां सकर्मसंसारिप्राणिनां प्रभवत एव, यतो योगिनीयमकुशलमाला, योगेश्वरश्चायं स्पर्शनो, योगिनां च भवत्येवेदृशी शक्तिः, यथा क्वचिदभिव्यक्तरूपता क्वचिदनाविर्भूतता वर्तते । બાલના ભવિષ્યનું ચારિત્ર ત્યારપછી રાજા જ ભગવાન પ્રત્યે કહે છે – આ પુરુષનોકબાલનો, કયો પરિણામ થશે ? ભગવાન વડે કહેવાયું – હમણાં જોવાયેલા તમારા કોપના વિપાકપણાને કારણે=પૂર્વમાં રાજાએ કોપ કરીને જે પ્રકારે તેને માણસો દ્વારા ખૂબ પીડા કરેલી તેના સ્મરણને કારણે, ભયના અતિરેકથી ગ્રસ્તહદયવાળો આ બાલ કંઈ ચેતના પામતો નથી. વળી, અહીંથી તમે વિગેરે ગયે છતે લબ્ધસંજ્ઞાવાળો છતો આ=બાળ, ફરી પણ આ સ્પર્શન વડે અધિષ્ઠિત થશે=કામને પરવશ થશે. તેથી તમારા ભયથી જ કોઈક નિર્દેશમાં હું જાઉં, એ પ્રકારના આશયથી ભાગતો મોટા ક્લેશથી આ બાલ, કોલ્લાકસન્નિવેશમાં
SR No.022715
Book TitleUpmiti Bhav Prapancha Katha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages520
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy