________________
सग-१०
८3
स्वयं तद्रक्षको भूत्वा, चारणार्थं तुरंगमान् । आनीय तद्वनोपांते, सोऽवदद्वनपालकान् ।७६। भो भो वनाधिपा यूयं, वाक्यं शृणुत मामकं । भाषध्वं यदि तमुत्र, चारयामि हयानमून् ।७७। दृश्यते काननं रम्यं, विस्तीर्णं फलितं ह्यदः । लात्वाश्वानहमप्यागां, दूरतः कथ्यते ततः ७८। चारयित्वा हयानत्र, पुष्टान् कृत्वा ततो यदा।विक्रिष्यामि तदा किंचि-युष्माकमपि दास्यते॥ तदा ते जगदुर्मूर्खा,-जन्मतो प्रथिलोऽसि किं । भूतेन केनचिद्यद्वा, ग्रस्तः सांप्रतमेव किं ।८०। येन त्वमासमंजस्यां, गिरं राजविरोधिनीं । तत्कालं प्राणसंहार-विधायिनी प्रजल्पसि ।८१॥ अत्र क्रिडति गीर्वाण, इव भानुः प्रसादवान् । इतरेषां मनुष्याणां, प्रवेशोऽपि न विद्यते ।८२। यस्य च्छायापि नो लभ्या, तत्रेच्छस्यश्वचारणं ।
त्वत्तः कोऽप्यपरो नास्ति, मूर्यो धृष्टोऽत्र संसृतौ ।८३। कृष्णाग्रमहिषी सत्य-भामाया अस्ति काननं । अस्य दर्शनवांछाभि-रेव तिष्ठति केचन ।८४॥ गच्छ गच्छ ततो वाहा-नादाय तुच्छधीरितः। तभृत्या मारयिष्यंति, गृहीत्वा तुरगांस्तव ॥ नि थोऽसि दरिद्रोऽसि, दुर्बलोऽसि च रंकवत् । परदेशात्समेतोऽसि, ब्रमो वयं हिताय ते।८६। अवादीन्मदनो भो भो, रक्षका यूयमेव हि । मूर्खेभ्योऽप्यधिकाः संतो, वर्तध्वे कठिनाः कथं ।८७। युष्माकं कठिनो नाथः, स्वामिनी वास्ति ताशी। देशो वा सन्निवेशो वा, सत्यं ब्रूते पुरो मम॥ नाथश्च श्रूयते सम्यग, राज्य नीतिप्रपालकः। शत्रुजयोज्जयंतादि-तीर्थर्देशोऽपि धर्मवान् ।८९। स्वामिन्याः सत्यभामाया, यूयं तदनुगामिनः। किं च भूतं यतो मर्त्य-मांतरं च वित्थ न । हस्तिनां वाजिनां नृणां, रत्नादिवस्तूनामपि । अंतरं येन न ज्ञातं, तदीयं जीवितं वृथा ।९१॥ चरंतु तुरगा एते, तृणमात्रोपजीविनः । कानने संस्थिता विष्वक, सारणीपार्श्ववर्तिनः ।९२। मयामी शिक्षिताः संति, तुरगा हृदयंगमाः। फलपत्रप्रसूनानि, भोक्ष्यतेऽस्य वनस्य न ।९३। मदुक्ते यदि विश्वासो, न भवेद्भवतां हृदि । मुद्रिकां मम ताँतां, यूयमादाय रक्षत ।९४। इत्थमस्तु गदित्वेति, समादाय च मुद्रिकां। चरितुं तैहया दत्ता, धनेन हि न किं भवेत् ।९५। तेऽवादिषुश्चरिष्यंत्य-क्सिारण्या हया यदि । तद्वरं चान्यथा ताव-कीना देया न मुद्रिका ॥ चरितुं वरमित्युक्त्वा, विमुक्तास्तेन तत्र ते । आदाय मुद्रिका जग्मु-गेहं वनाधिपा अपि ।९७। गतेषु तेषु तैरश्व-विचित्रे तत्र कानने । महीरुहास्तृणैः सत्रा, समस्ता अपि भक्षिताः ।९८॥ तत्पत्रफलपुष्पाणि, तृणानि पतितान्यपि । भक्षयित्वा कृतं तैस्त-दूपरक्षेत्रभूरिव ९९। कासाराणां च कूपानां, वापीनामखिलान्यपि ।
आपीय जीवनीयानि, शुष्कीकृताः समेऽपि ते ५००। દ્વારિકા નગરીને જોવાની ઈચ્છાથી આગળ ચાલતાં પ્રદ્યુમ્ન એક મનહર વન જેવું. જેઈને પ્રદ્યુમ્ન વિદ્યાને પૂછ્યું : “હે કર્ણપિશાચિકા, આવું મને હર વન કેવું છે ? વિદ્યાએ કહ્યું : સત્યભામાનું આ વન છે, તે તને યેગ્ય લાગે તેમ કર !” વિદ્યાની સહાયથી સુંદર લક્ષણવંતા