________________
२२०
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
સામાન્ય માનવોને દુર્ગતિની પ્રાપ્તિ કરાવનારો આશ્રયકારી છે, તે જ વિવાહ પ્રસંગ ભગવાન નમિનાથને વૈરાગ્યની પુષ્ટિ કરાવનાર અને મોક્ષના કારણરૂપ બન્યો. જે લે કે ભગવાન નેમિનાથનું આ અદ્દભુત ચરિત્ર સાંભળીને હૃદયમાં સંતોષ અનુભવે છે, તેઓના ઘેર વિપુલ માંગલિકની માતા સર્જાય છે.
આ પ્રમાણે પંડિતમાં ચકુવતી સમા શ્રી રાજસાગરગણના વિદ્વાન શિષ્ય શ્રી રવિસાગર
એ ૨લા શ્રી શાંબ ઘરનચરિત્રમાં શ્રી નેમિનાથ વિવાહ, વૈરાગ્ય, દીક્ષા, સમવસરણ, ધમ દેશના અને વિહાર આદિનું વર્ણન કતે ૬૪૧ કલેક પ્રમાણ તેરમો સર્ગ સમાપ્ત થશે.
॥ अथ चतुर्दशः सर्गः प्रारभ्यते ॥
इतश्च विचरन्नेमि-स्वामी द्वारवतीमगात् । कानने समवासार्षीत्, सहस्रानवनांतिके ॥१॥ अभी टागमनं तस्य, श्रुत्वा निनंसया नराः । तथैव वंदितुं जग्मु-र्न कस्य मुज्जिनागमे ? ॥२॥ देवकीसूनवः षट् ते, षष्ठस्य पारणेच या । संघाटकत्रयं कृत्वा, गोचर्य द्वारिकां ययुः ॥३॥ तेष्वेकत्रानीकयशो-ऽनंतसेनौ बभूवतुः । विहरंतो गतावेतौ, देवकीमातृमंदिरं ॥४॥ व६८ ६८मादेतो, कृणाभाविव देवकी । वंदित्वा मोदकैः सिंह-केसरैः प्रत्यलाभयत् ।। तौ प्रतिलाभितौ याव-दगतौ तावत् परौ मुनी। आगतावजितसेन-जितारिनामको द्रुतं । यावत्तया महाभक्त्या, तावपि प्रतिलाभितौ। तावद्देवयशः शत्रु-सेनाख्यो समुपेयतः ॥७॥ तावपि प्रतिलाभ्योच्च-स्तैरेव मोदकैः शुभैः । देवकी समभूचित्ते, चमत्कारसमन्विता ॥८॥ अन्यत्रालब्धभिक्षाको, तावेव मुनिपुंगवौ । वारंवारं समायातौ, भिक्षार्थं मम मंदिरे ॥९॥ रूपेण भाषणेनापि, भेदं संघाटकत्रये । अजानंती जगौ साधू, देवकी रचितांजलिः ॥१०॥ कि दिग्मूढतया यूयं, भो मुनींद्राः पुनः पुनः । अत्रागच्छथ वा माम-कीना आभ्रांतिरस्ति किम्?। युवां पृथक्पृथक् कि दा, समेतौ विजिहीर्षया । अहं तावेव जानामि, विलोचनमतिभ्रमात् ॥ अथवा धनधान्येभ्यः, पूर्णायां ताविषश्रिमि । अस्यां पुर्या महर्षीणा-माहाराप्तिर्भवेन किं ? ॥
प्रोचतुरहो भद्रे-ऽस्माकं दिग्मूढतास्ति न । तावकस्यापि चित्तस्य, न भ्रांतिरपि वर्तते ।। द्वारिकानगरीमध्ये, भिक्षाप्तिर्नास्ति दुर्लभा । यल्लोकास्तत्पराः संति, धर्मार्थकामसाधने । वयं सहोदराः षट् स्मो, भहिलपुरवासिनः । सुलसानागयोः पुत्राः, पवित्राशयधारिणः ।१६। देशनां नेमिनाथस्य, निशम्य नरकच्छिदां । समं संयममादाय, शिष्यास्तस्य वभविम ।१७। ते वयं त्रीणि युग्मा न, कृत्वा विहरणाय च । पर्यटतोऽत्र गोचर्या, संप्राप्ता भुवनं तव ॥१८॥ तयोरिति वचः श्रुत्वा. देवकी हचितयत् । केऽमी षडपि वर्तते, कृष्णवन्मोहकारिणः ।१९। ततः समवसरणे, श्रीनेमिजगदीशितुः । गत्वा वृत्तांतमेतेषां, पृच्छाम सर्वमादितः ॥२०॥