SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ૧૩૪ શાંબ–પ્રદ્યુમ્ન ચરિત્ર इति व्याकुलचित्तोऽसौ, बलिष्टोऽपि वृषाकपिः । सद्यः प्राणापहं शत्रो-रपरं धनुराददे ॥६०।। येनैकशो जयः प्राप्तः, स एवास्तु जयी सदा । इति द्वितीयमप्येत-च्छित्त्वावादीद्वितर्कतः ।६१। ज्ञातं ज्ञातं तव स्थाम, धनुर्विद्यासमुत्थितं । विच्छेदितं मया धन्वन्-मार्गण संधिते सति ।६२॥ समरे वीरमाना-मुपहासकरीदृशी । कुतोऽसो शिक्षिता विद्या, मानभ्रंशविधायिनी ॥६३॥ पांडवा बलभद्राद्या-स्त्वत्तोऽभूवन भटोत्तमाः। यैर्यध्ध्वापि महत्त्वं स्वं, रक्षितं च भुजाजितं । तेषां त्वं नायको लोक-निगद्यसे विशेषः । शुद्धिस्तव न कोदंड-धरणेऽपि प्रवर्तते ॥६५॥ यस्य स्याच्छस्त्रशिक्षायां कौशलं प्रबलं करे। स एव विजयं युद्धे, लभते नापरो नरः ॥६६॥ कलां विना कथं युद्धं, करोषि त्वं मया समं । किं स्त्रियो बंधुवर्गस्य, मोचनेन प्रयोजनं ॥६७॥ युद्धकर्म न या त्वं, शिक्षसे गुरुसन्निधौ । गत्वा मत्पुरतस्तावद्, भुक्ष्व सौख्यानि मंदिरे ॥६८॥ इत्योपहासवाक्येन, हसितः पुरुषोत्तमः । वह्निरिवेंधनैः कोपा-तृतीयमग्रहीद्धनुः ॥६९॥ तेन मुक्त : शरवातै- जितं मान्मथं बलं । नाशितास्तुरगा ध्वस्ताः, स्यदनच्छत्रकेतवः ७०। स्वकीयं नाशितं सैन्यं, समालोक्य मनोभवः । विद्यया स्यंदनं चान्यत्, प्रविधायोद्यतोऽभवत् । कृष्णोऽपि रथमारुह्य, वाह्यवाजिसमन्वितं । विद्यामाहूय युद्धाय, व्यमुंचद्वह्निमार्गणं ॥७२॥ विनिर्मितः क्वचित्तेन, झात्कारो विद्युदाकृतिः । स्फुल्लिगवर्षणं भूयः, क्वचिद्दाहश्च दुस्सहः । आगच्छंतं स्वसैन्यस्यां-तिके वह्निमयं शरं । प्रज्वलंतं समालोक्य, सोऽमुंचन्मेघमार्गणं ॥७४॥ यथा यथा हरेर्बाणः, स्फुलिंगानि ववर्ष च । तथा तथा पयोराशि, मुमोच मान्मथः शरः ।७५। तेन कृष्णस्य बाणस्य, पराकृते पराक्रमे । शस्त्रं मुमोच वायव्यं, रणे विक्षोभकारकं ॥७६॥ उड्डायिताः क्षणात्तेन, मत्तंगजतुरंगमाः । पत्रव्रजा इव च्छत्र-शस्त्रस्यंदनपूरुषाः ॥७७॥ प्रद्युम्नोऽपि ततोऽमुंच-च्छस्त्रं तामससंज्ञक । तस्यांधकारतो जाता, अंधा इव हरेर्भटाः ॥७८॥ एवं विविधजातीय-राधैर्बहुधेरितैः । संग्रामस्तातपुत्राभ्यां, व्यधीयत परस्परं ॥७९॥ प्रद्युम्ने कोपतः कृष्णो-ऽक्षिपन्मार्गणधोरणीः । तथापि तस्य भाग्येन, नासंस्ताः परिभाविकाः। अमोघान्यपि शस्त्राणि, यान्यभूवन् वृषाकपेः । मुक्तानि तानि निःशेषा-ण्यप्यासन् विफलानि च । आयुधानाममोघाना-मपि नैष्फल्यदर्शनात् । ईक्षणाच्च स्वसैन्यस्य, क्षयस्याचितयद्धरिः।८२। पापोऽयं बलसंयुक्तो, मल्लसंग्राममंतरा । मया न शक्ष्यते जेतुं, तस्मात्तं विदधाम्यहं ॥८३॥ विमृश्येति रथाद्विष्णु-रुत्तीर्य वीर्यसंयुतः। चक्रे चरणयोर्घातं, कातरं स्वांतघातकं ॥८४॥ मन्ये कातरमानां, प्रवेशयावनीतले । विवराणि प्रभूतानि, तदा तेनाभवत् भृशं ॥८५॥ रथादुत्तीर्णमालोक्य, जनक कोपभीषणं । प्रद्युम्नोऽपि रथाद्वेगा-दुत्तीर्णो योध्धुमुद्यतः ॥८६॥ मल्लयुद्धविधानाय, यावतौ मिलितावुभौ । बद्धकच्छौ यशोवांछौ, मल्लावभिनवाविव ॥८७॥ ક્રોધથી લાલઘૂમ આંખવાળા કૃષ્ણને રથમાંથી ભયંકર બાણની વર્ષા વરસાવતા જોઈને પ્રદ્યુમ્ન પણ ધીમે ધીમે પોતાને રથ પિતાની સામે લાવ્યો. ત્યારે ઈષ્ટ વસ્તુના અથવા પુત્રમિલનના
SR No.022712
Book TitleShamb Pradyumna Charitra Part 02
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1990
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy