SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ एवं च त्रयोदशख्रिस्तशतकनिश्चितस्थितिवीसलदेवराज्ये अमरचन्द्रस्य स्थितिनिश्च यात्रयोदशख्रिस्तशतके बालभारतनिर्माणनिश्चयः नयचन्द्रकविकृतयोहम्मीरमहाकाव्य-रम्भामञ्जरीनाटकयोः 'कार्यात्कारणसंविदं विदधते नैकान्तमुत्सृज्य य. त्ततेषामिव नोऽपि कहिंचन किं चेतश्चमत्कारवान् । नैवं चेन्नयचन्द्रसूरिसुगुरोर्वाणीं विधायामृतं श्रीहर्ष तमथामरं तमपि तत्कि संस्मरेयुर्बुधाः ॥ नयचन्द्रकवेः काव्यं रसायनमिहाद्भुतम् । सन्तः स्वदन्ते जीवन्ति श्रीहर्षाद्याः कवीश्वराः ॥ लालित्यममरस्येह श्रीहर्षस्येह वक्रिमा । नयचन्द्रकवेः काव्ये दृष्टं लोकोत्तरं द्वयम् ॥' इत्यत्र 'स्वदन्ते', जीवन्ति' इति वर्तमानप्रयोगाच्छीहर्षामरचन्द्रयोरपि नयचन्द्रसमकालकत्वं वर्णयन्ति. परंतु चतुर्दशशतकमृतहम्मीरमहाराजवर्णकनयचन्द्र कवेश्चतुर्दशशतकपूर्वकालकत्वाभावेन द्वादशख्रिस्तशतकोत्पन्ननैषधीयचरितकर्तश्रीहर्षस्य त्रयोदशख्रिस्तशतकोत्पन्नबालभारतमहाकाव्यकत्रमरचन्द्रस्य च नयचन्द्रसमानकालकत्वाभाबादेतत्समानसमयौ श्रीहर्षामरौ कौचिद्भिन्नावेव भवेताम् . तदेतस्य बालभारतमहाकाव्यस्य परममनोहरस्य यद्यपि काशीविद्यासुधानिधि (The Pandit) पत्रे मुद्रणं जातम् , तथापि तस्य सर्वासुलभत्वं बहुत्र पाठस्य खण्डितत्वं चावलोक्य पुनर्मुद्रणेच्छा जाता. तत्र पुनर्मुद्रणसमये महामहोपाध्यायपण्डितश्रीदुर्गाप्रसादशर्मभिः क-संज्ञकं द्विचत्वारिंशत्सर्गात्मकं चरमसर्गद्वयरहितं जयपुरराजगुरुभदृश्रीलक्ष्मीदत्ततनयश्रीदत्तशर्मभिः संवत् १७२४ वैशाख वदि ४ भौमवासरे लिखितं प्रहितम्. __ ख-संज्ञकं समग्रं ३०७ पत्रात्मकं जोधपुरपाठशालाध्यापकरमानाथशानिमिजोधपुरनगरतो यतिवरश्रीगणेशपुरीसाधूनां प्रेषितम्. ग-संज्ञकं काशीविद्यासुधानिधिपत्रे मुद्रितम्. इत्येवं पुस्तकत्रयमाश्रित्य समारब्धसंशोधने तत्स्वर्गवासोत्तरमस्माभिः समापितसंशोधनेऽप्यस्मिन्महाकाव्ये यत्रास्मदोषादक्षरयोजकदोषाद्वाशुद्धिः स्थिता जाता वा तां सुधियः सौहार्दैन शोधयन्तु. यतः गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ।। इति निवेदयतः पण्डितशिवदत्तकाशीनाथौ.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy