SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११४ काव्यमाला | सकृदपसृतपत्राभ्यन्तरम्यन्तरोद्यत्परिमलमिलितालिश्रेणिकामण्डलानि । उदयिनि हृदयेशे कङ्कणानीव पङ्केरुहमुकुलकराग्रैर्भेजिरेऽम्भोरुहिण्यः ॥ १९ ॥ रुचिनिचयममुञ्चत्तारकाचक्रवालं विधुरपि विधुरत्वं प्राप शूरागमेऽस्मिन् । इति चकित इवोच्चैः कम्पितो दंपतीनां रतिगृहकुहरान्तर्दुर्गदीप्तोऽपि दीपः ॥ २० ॥ सपदि पदमशेषद्वीपदीपायमान द्युमणिकिरणवीथीचक्रवालप्रणुन्नैः । भृशमुपशमधूमैरोषधीनामिवोर्वी धरनिवहगुहान्तर्ध्वान्तभारैरकारि ॥ २१ ॥ विलसनसदनेभ्यो जग्मुराश्लिष्टकान्ता - स्तनघनघुसृणाङ्कद्वन्द्वदम्भेन सद्यः । स्फुरदुरसि युवानो मन्मथक्ष्मापलीला रथ इव पृथुशोभे चक्रयुग्मं दधानाः ॥ २२ ॥ उदितमुदितकान्ताश्लेषपीयूषवीची चकित इव कृशानुश्चित्ततश्चक्रनाम्नाम् । गुरुतरगिरिशृङ्गोत्सङ्गदुर्गेषु मङ्खु घुमणिमणिगणोष्मच्छद्मना सद्म चक्रे ॥ २३ ॥ प्रियविरहित को कीदृक्पयो वाहिनीभिः सह शममगुरिन्दुग्रावनिःस्पन्दनद्यः । किमपि कलितमौनस्तद्वियोगादिव द्राक्पतिरधित नदीनामेष दीनामवस्थाम् ॥ २४ ॥ . द्रुतकृतपदपाताः प्रातरायातवन्तो नखरदपदलक्ष्मीमण्डिताः खण्डिताभिः ।
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy