SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ७२ श्रीशान्तिनाथचरित्रे 1 हृष्टः सोऽप्यनुमेने तदिति ध्यायन् यथा नृपम् । तोषयित्वा 'स्वदानेन करिष्यामि समीहितम् ॥ ७८ ॥ इतः स धनदस्तेन प्रक्षिप्तो जलधेर्जले पूर्वभग्नस्य 'पोतस्य लेभे खण्डं विधेर्वशात् ॥ ७८ ॥ गाढं तदुरसाऽऽश्लिष्य तुभ्यमाणस्तरङ्गकः । पञ्चभिर्वासरैः प्राप्तः स्वपुरासन्नकूलकम् ॥ ८० ॥ हृष्टाशयो निजपुरं पश्यन्नूर्द्धमुखो दृशा । गिलितो गुरुमत्स्येन फलकेन सहैव सः ॥ ८१ ॥ दध्यौ च पतितो मत्स्यजठरे नरकोपमे । रे जीव देवदोषेण गाथां भावयतां ततः ॥ ८२ ॥ यहा पूर्वभवाचीर्णकर्मदोषेण केनचित् । पतत्यसौख्यं मय्येव च्छिद्रं जीर्णवृताविव ॥ ८३ ॥ इति ध्यात्वा स सस्मार मणिमापनिवारकम् । तत्प्रभावेन मत्स्योऽसौ गृहीतस्तत्र धीवरैः ॥ ८४ ॥ स्फाटिते जठरे तस्य दृष्टोऽसौ तैः सविस्मयैः T प्रक्षालितश्च नौरेण कथितश्च महीपतेः ॥ ८५ ॥ राजाऽपि विस्मितमनास्तमानाय्यात्मसन्निधौ । पप्रच्छ किमिदं भद्राघटमानं तवाऽभवत् ॥ ८६ ॥ अयि कोऽसि कथं वा त्वं पतितोऽसि भषोदरे । इति सत्यं ममाख्याहि वर्त्तते कौतुकं महत् ॥ ८७ ॥ (१) ङ सुदानेन | (२) ग घ ङ च यानस्य ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy