SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २५० श्रीशान्तिनाथचरित्र विचिन्त्य द्वितीयेनोक्रम्-'कलाऽभ्यासः' इति । स च पठितवान् : दण्डनीतिः कथं पूर्व महाखेदे क उच्यते ? । काऽबलानां गतिर्लोकपालः कः पञ्चमो मतः ? ॥ २८ ॥ ज्येष्ठेन तस्योत्तरं दत्तम्-“महीपतिरिति” । ततश्च स पपाठ : किमाशीर्वचनं राज्ञां का शम्भोः तनुमण्डनम् ? । कः कर्ता सुखदुःखानां पात्रं च सुकृतस्य कः ? ॥ २८ ॥ अन्येषु अजानत्म मेघरथेन तस्योत्तरमादायि-'जीवरक्षाविधिरिति । खयं च भणितवान् सुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? । निषेधवाचकः को वा का संसारविनाशिनी ? ॥ ३० ॥ राज्ञोक्तम्-‘भावनेति'। तथैका गणिका तत्रोपविश्य नृपमब्रवीत् । जीयते देव ! नान्येन ककवाकुरयं मम ॥ ३१ ॥ यदि वाऽन्यस्य कस्याऽपि गर्वोऽस्ति चरणायुधात् । स पादमूले भवतामानयत्वात्मकुकुटम् ॥ ३२ ॥ जेष्थते कुक्कुटो मे चेत् ताम्रचूडेन कस्यचित् । तत् तस्मै संप्रदास्यामि द्रव्यलक्षमहं स्फुटम् ॥ ३३ ॥ राज्ञी मनोरमा तस्याः समाकाथ तहचः । दास्या राजाज्ञया तनानाययद् निजकुक्कुटम् ॥ ३४ ॥ (१) ठ मनं च सुक्षतस्य का ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy