SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः । २४९ विजेयो वलिपलितनाशः पक्षिरुतं तथा । कला विसप्ततिश्चैता विद्वद्भिः परिकीर्तिताः ॥ १८ ॥ कलाकलापसम्पूर्णौ रूपनिर्जितमन्मथौ । क्रमेण यौवनं प्राप्ती कुमारी तो बभूवतुः ॥ २० ॥ सुमन्दिरपुराधीशनिहतारिनृपाऽऽत्मज । उपयेमे मेघरथः प्रियमित्रामनारमे ॥ २१ ॥ तस्यैव भूपतेः पुत्री कनिष्ठा रूपसंयुता। पत्नी दृढरथस्यापि जन्जे सुमतिसंज्ञका ॥ २२ ॥ नन्दिषणमेघसेनाऽभिधानी वरनन्दनौ । जातो 'मेघरथस्याऽथ पत्नीहितयसंभवी ॥ २३ ॥ पुत्रो दृढरथस्यैको रथसेनाभिधोऽभवत् । । ते त्रयोऽपि कलाऽभ्यासं समये चक्रिरेऽखिलम् ॥ २४ ॥ राजा मेघरथोऽन्येद्युः पुत्रपौत्रसमन्वितः । सिंहासननिविष्टोऽधितष्ठावास्थानमण्डपम् ॥ २५ ॥ प्रोक्ता मेघरधनाथ न वाधीता निजात्मजाः । वत्माः ! प्रज्ञाप्रकाशाऽर्थं ब्रूत प्रश्नोत्तराणि च ॥ २६ ॥ ततस्तद्वचनानन्तरमेव एकेन कनिष्ठेन पठितम् : कथं संबोध्यते ब्रह्मा दानार्थो धातुरत्र कः ? । कः पर्यायच योग्यानां को वाऽलङ्करणं तृणाम् ? ॥ २७ ॥ (१) ङ मेघरथस्थेमो विनयादिगुणैर्युतौ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy