SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सटीकम् । “ आसन्ने समीपगते सति । " समीपे निकटासन्न " इत्यमरः । तुङ्गशाखाग्रघृष्टव्योमोत्सङ्गैः उन्नतशाखायैः घृष्टः व्योमोत्सङ्गो गगनतलं येषां तैः । निजतरुवरैः स्वकीयवृक्षोत्तमैः । " दैवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबे प्रिये मनाकू इत्यमरः । आत्तशोभाः प्राप्तद्युतयः । फलाढ्याः फलभरिताः । उपवनभुवः आरामभूमयः I आरामः `स्यादुपवनम् ” इत्यमरः । नीडकृद्भिः नीडं कुर्वन्तीति नीडकृतस्तैः । विविधविहगैः नानापक्षिभिः । " खगे विहङ्गविहगविहङ्गमविहायसः ' इत्यमरः । आकुलाः सङ्कीर्णाः । परिणतफलश्यामजम्बूवनान्ताः परिणतैः परिपक्कैः फलैः श्यामानि यानि जम्बूवनानि तैरन्ता रम्याः । “ मृताववसिते रम्ये समाप्तावन्ते " इति शब्दार्णवे । सम्पद्येरन् भवेयुः ।। ९१ ॥ "" "" ७७ इत्यभ्यर्णे भवति विलसद्विद्युदुद्दामहासे मुक्तासारप्रकटितरवे के किनामुन्मदानाम् । नृत्यारम्भं घटयति मुहुर्नूनमुद्भूतपङ्काः सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ ९२ ॥ २३ ॥ ८८ इतीति ॥ विलसद्विद्युदुद्यामहासे विलसद्विद्युदुद्यामहासे विलसद्विद्युदेव उद्दामः उत्कटो हासो यस्य तस्मिन् । मुक्तासारप्रकटितरवे मुक्तः पातितः आसारो धारावृष्टिः तेन प्रकटितो वो ध्वनिर्यस्य तस्मिन् । " आसारो वेगवद्वर्षम् ” । ध्वनिध्वानरवस्वनाः" इत्यप्यमरः । उन्मदानां सन्तुष्टानां । केकिनां मयूराणां । नृत्यारम्भं नर्तनव्यापारम् । स्यादभ्यादानमुद्धात आरम्भः इत्यमरः । मुहुः असकृत् । घटयति घटयतीति घटयन् तस्मिन् सम्बन्धं कुर्वति । भवति त्वयि । इति एवंप्रकारेण । अभ्यर्णे समीपगते । दशार्णाः देशाः । उद्भूतपङ्काः उत्पन्नकर्दमाः । “ पङ्कोऽस्त्री शादकर्दमौ ” इत्यमरः । कतिपयदिनस्थायिहंसाः कतिपयेष्विव दिनेषु स्थायिनो ८८ "" "
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy