SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पार्श्वाभ्युदयकाव्यं तेषामाविष्कृतजललवे त्वय्युपासन्नवृत्तौ सीमोद्देशा नयनसुभगाः सामिसंरूढसस्याः । सञ्जायेरन्नवपरिकरा मूकपुंस्कोकिलाश्च नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ॥ ९० ॥ 66 तेषामिति । तेषां दशार्णानाम् । आविष्कृतजललवे प्रकटीकृतजलकणयुक्ते । त्वयि भवति । उपासन्नवृत्तौ उपासन्ना वृत्तिर्यस्य तस्मिन् अत्यासन्नवृत्ते सति । सीमोद्देशाः सीम्नां प्रदेशाः । ग्रमान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे " इत्यमरः । नयनसुभगाः नेत्रगोचराः । सामिसंरूढसस्याः ईषत्समुत्पन्नसस्याङ्कुराः । मूकपुंस्को - किलाः पुमांश्च ते कोकिलाश्च तथोक्ताः । “ अवाचि मूक: "" इत्यमरः । मूकाः पुंस्कोकिलाः येषां ते तथोक्ताः । वर्षाकाले कोकिलानां मूकभावत्वादित्यर्थः । गृहबलिभुजां गृहकाकानाम् । बलिभुग्वायसा अपि " इत्यमरः । नीडारम्भैः कुलाय प्रारम्भैः । " कुलायो नीडमस्त्रियाम् ” इत्यमरः । आकुलग्राम चैत्याः आकुलाः कीर्णाः ग्रामाणां चैत्याः रथ्यावृक्षाः येषु ते तथोक्ताः । " चैत्यमायतने जैनबिंबे चोदेशपादपे " इति विश्वः । नवपरिकराः नवः परिकरः प्रोक्तरूपः परिवारो येषां ते तथोक्ताः । " नवीनो नूतनो नवः । परिकरः । " पर्यङ्कपरिवारयोः " इत्युभयत्राप्यमरः । संजायेरन् संभवेयुः ।। ९० ।। 66 "" ७६ भूयस्तेषामुपवनभुवस्तुङ्गशाखाग्रघृष्ट व्योमोत्सङ्गैर्निजतरुवरैरात्तशोभाः फलाढ्याः । सम्पद्येरन्विविधविहगैराकुला नीडकृद्भिः त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः ॥ ९१ ॥ भूय इति ॥ भूयः पुनः । तेषां दशार्णदेशानाम् । त्वयि भवति ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy