SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सटीकम् । १९१ पुष्पोद्गन्धिः पुष्पाणामुद्गतो गन्धो यस्य सः । मृदुकिसलय: मृदूनि कोमलानि किसलयानि पल्लवानि यस्य सः । " घनं निरन्तरं सा न्द्रम् ” इत्यमरः । सलिलधरणोपान्तपुस्तैणशावः । सलिलधरणस्य जलाधारस्य उपान्ते स्थितः पुस्तैणशावः प्रतिमारूपो मृगशिशुर्यस्य सः । “ पुस्तं लेप्यादिकर्मणि' इति ।” “ पृथुकः शावकः शिशुः इति चामरः । हस्तप्राप्यस्तबकनमितः हस्ते प्राप्यैः हस्तापचेयैः स्तबकैः गुच्छैः नमितः नम्रीकृतः । स्याद्गुच्छकस्तु स्तबकः इत्यमरः । मे मम । कान्तया कामिन्या । वर्धितः पोषितः । कृतकतनयः कृत्रिमपुत्रः पुत्रत्वेनाभिमन्यमान इत्यर्थः । बालमन्दारवृक्षः बालकल्पवृक्षः । अस्तीति शेषः ॥ १३ ॥ 66 "" नाहं दैत्यो न खलु दिविजः किन्नरः पन्नगो वा वास्तव्योऽहं धनदनगरे गुह्यकोऽयं मदीया | वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा हैमैः स्फीता विकचकमलैर्दीर्घवैडूर्यनालैः ॥ १४ ॥ "" नाहमिति । अहम् दैत्यः राक्षसः । न न भवामि । दिविजः स्वर्गजः । किन्नरः किन्नरदेवः । पन्नगो वा नागदेवो वा । न खलु न भवामि । धनदनगरे अलकापुरि । वास्तव्यः वस्तुं योग्यो वास्तव्यः स्थातव्यः । अयमहम् एषोऽहम् । "स्वस्मिन्परोक्ष निर्देशो गमको मददैन्ययोः” इति वचनात् । स्वस्मिन्म देनायमिति प्रयोगः । गुह्यकः यक्षदेवः । अस्मिन् गृहोपवने । मरकतशिलाबद्धसोपानमार्गा मरकतमणिभिः आबद्धः सोपानमार्गो यस्याः सा तथोक्ता । दीर्घवैडू - र्य्यनालैः विडूरे भवो वैडूर्यः इति साधुः । वैडूर्याणां विकाराणि वैडूर्याणि । “विकारे” इत्यण् । दीर्घाणि स्निग्धानि वैडूर्याणि नालानि येषां तैः । हैमैः हेम्नो विकाराणि हैमानि तैः कनकमयैरित्यर्थः । विकचकमलैः विकसितसरसिजैः । स्फीता छन्ना वा । मदीया ममेदं I
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy