________________
१९०
पार्श्वाभ्युद्यकाव्यं
ष्पन्नः । यदनर्थकरं चैहिकफलं तदप्रयोगो वरम् निश्चितसाधनप्रयोगः वरं निश्चितसाधनप्रयोगः कर्तव्य इत्यर्थः ॥ ११ ॥
स्यादारेका बहुनिगदितं कस्तवेदं प्रतीयात् सद्वाऽसद्वा तदिति ननु भोः प्रत्ययं ते करोमि । तत्रागारे धनपतिगृहादुत्तरेणास्मदीयं
दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ॥ १२ ॥
स्यादिति । तव भवतः । तवेदं पुरवर्णनमित्यर्थः । बहुनिगदितं बहुना भाषितम् । सद्वाऽसद्वा सत्यं वा असत्यं वा । कः प्रतीयादिति आरेका आशङ्का । स्याद्भवेत् । ननु भोः ननु भवन् । " वोशनोशन् ” इत्यादिना भवच्छब्दस्य भोरादेशः । ते भवतः । प्रत्ययं विश्वासम् । “ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु " इत्यमरः । करोमि विदधामि । तत्र अलकायाम् । धनपतिगृहात् राजराजनिलयात् । उत्तरेण उत्तरस्मिन्नदूरप्रदेशे । “एनोऽदूरे " इति एनत्यः । अव्ययमिदम् । अस्मदीयम् अस्माकमिदम् अस्मदीयम् । “ दोश्छः " इति छः । अगारं गृहम् । सुरपतिधनुश्चारुणा मणिमयत्वादभ्रंकषत्वाच्चेन्द्रचापसुन्दरेण । त्वद्मरधनुरिति वा पाठः । तवेन्द्रधनुरिव सुन्दरेण । तोरणेन लम्बमानतोरणेन । दूरात् अतिदूरात् । लक्ष्यं प्रेक्ष्यम् । अनेनाभिज्ञानेन दूरत एव ज्ञातुं शक्यमित्यर्थः ॥ १२ ॥
"
पुष्पोद्गन्धिर्मृदुकिसलयो भृङ्गसङ्गीतहारी
सान्द्रच्छायः सलिलधरणोपान्तपुस्तैणशावः । यस्योद्याने कृतकतनयो वर्द्धितः कान्तया मे
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ १३ ॥ १५॥१२॥
पुष्पोद्गन्धिरिति ॥ यस्य अस्मदीयगृहस्य । उद्याने उपवने ।