SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ - सटीकम् । अथ तृतीयः सर्गः। इतोऽर्धवेष्टितानिवेगादन्तर्भवनवलभिं सम्प्रविष्टाः कथञ्चित् __ सूक्ष्मीभूताः सुरतरसिकौ दम्पती तत्र दृष्ट्वा । शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥१॥९॥६॥ वेगादिति ॥ यत्र राजपुर्याम् । त्वादृशाः भवादृशाः । त्वमिव दृश्यन्ते ते त्वादृशाः। त्वत्सदृशा इत्यर्थः । जलमुचः मेघाः । भवनवलभेः गृहवक्रदारुणः सकाशात् । अन्तः गृहान्तरम् । वेगात् शैघ्येण । सूक्ष्मीभूताः स्तोकीभूताः । कथञ्चित् केनापि प्रकारेण । संप्रविष्टाः कृतप्रवेशास्सन्तः। तत्र गृहान्तरे। सुरतरसिकौ निधुवनप्रियौ । दम्पती स्त्रीपुरुषौ । दृष्ट्वा विलोक्य । शङ्कास्पृष्टा इव सापराधात् भयादिस्पृष्टा इव । “ शङ्काभयवितर्कयोः” इति शब्दार्णवे । धूमोद्गारानुकृतिनिपुणाः धूमोद्गारस्य धूपधूमनिर्गतस्यानुकृतावनुकरणे निपुणाः कुशलाः । जर्जराः विशीर्णाः सन्तः । जालैः गवाक्षैः । " जालं समूहआनायौ गवाक्षक्षारकावपि” इत्यमरः । निष्पतन्ति निष्कामन्ति ॥ १॥ स्त्रीभिः सार्ध कनककदलीषण्डभाजामुपान्ते क्रीडाद्रीणां निधिभुगधिपा यत्र दीव्यन्त्यभीक्ष्णम् । मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि__मन्दाराणां तटवनरुहां छायया वारितोष्णाः ॥२॥ स्त्रीभिरिति ॥ यत्र अलकायाम् । मन्दाकिन्याः गङ्गायाः । सलिलशिशिरैः उदकेन शीतैः । मरुद्भिः मारुतैः । सेव्यमानाः
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy