SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पार्श्वाभ्युदयकाव्यं भीत्वेवालं व्रजति विलयं पश्यतामेव साक्षादालेख्यानां सजलेकणिका दोषमुत्पाद्य सद्यः ॥ ११८ ॥ १८२ इत्यमोघवर्षपरमेश्वरपरमगुरु श्री जिनसेनाचार्यविरचितमेघदूतवेष्टितवेष्टिते पार्श्वभ्युदये भगवकैवल्यवर्णनं नाम द्वितीयः सर्गः ॥ २ ॥ अध्यासीना इति । यत्र अलकानगर्याम् । भवनवलभौ गृहोपरिष्ठवक्रदारुणि । अध्यासीना अधिष्ठिता । “शीस्थासोऽधेराधारः" इति आधारे द्वितीया । आमुक्तप्रतनुविसरच्छीकरासारधारा विसरंतश्च ते शीकराश्च तेषामासारो वेगवद्वर्षं तस्य धारा तथोक्ता आमुक्ता प्रतन्वी विसरच्छीकरासारधारा यस्याः सा तथोक्ता । "आसार : स्यात्प्रसरणे वेगवृष्टौ सुहृद्वले" इति वैजयन्ती । शारदी शरदि भवा शरत्कालसम्बन्धिनी । मेघमाला जीमूतपद्धति: । आलेख्यानां सचित्राणाम् । “ चित्रं लिखितरूपाद्यं स्यादालेख्यं प्रयत्नतः । निर्मितास्तस्य ” इति शब्दार्णवे । सजलजलकणिकाभिः । दोषं वर्णमिश्रुत्वादिदोषम् । उत्पाद्य जनयित्वा । अलं परम् । भीत्वेव भयमाश्रित्येव । पश्यतामिव प्रेक्षतां जनानामिव । साक्षात् प्रत्यक्षतः । विलयं नाशम् । सद्यः तत्क्षण एव । व्रजति गच्छति ॥ ११८ ॥ . इयमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनाचार्यविरचितमेघदूतवेष्टि तवेष्टिते पार्श्वाभ्युदये तयाख्यायां च सुबोधिन्याख्यायां भगवत्कैवल्यवर्णनं नाम द्वितीयः सर्गः ॥ २ ॥ १ अनादरणे पश्यंत अनादृत्येव इत्यर्थः । २ नवजलकणैरित्यपि पाठः ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy